________________
मा. बाद माग रसाय, तस्मै यूत जे नातगृह्माणा-मपि के
| ततस्तं स्वजनीभूय, बमाषे सुबलात्मजः । पणस्तवास्ति पाचाली, तयाऽऽत्मानं विमोचय ॥९४१॥ इत्युक्ते तेन वैक
ल्य-पल्यङ्कः सह कीर्तिभिः। द्रौपदीमपि कौन्तेयो, निनाय पणतां तदा ॥ ९४२ ॥ गान्धारीसुतगृह्याणा-मपि केषांचिदक्षिषु । तदा विरासनश्रूणि, गुणाः सर्वप्रियंकराः ॥९४३ ॥ दुर्जनकधुरीणाय, तस्मै द्यूतमजे नमः । येन कामप्यनीयन्त, महान्तोऽपीदृशीं दग्नाम् ।। ५४३॥ ौरदीपशमाहारमा बदि नाग दपासुतः । इदानीं जयतीत्यादि, तदाऽन्योन्यं जगुर्जनाः ।। ९४५ ॥ क्षणेनाथ भुजाऽऽस्फोट-नादकन्दलितोदयाः । जितं बितमिति स्वैर-मुच्चेरुः शकुनेर्गिरः॥ ९४६ ॥ स्तम्भिता इव पूर्छाला, इव चित्रार्पिता इव | मृता इव प्रहग्रस्ता, इव सभ्यास्तदाऽभवन् ।। ९४७ ॥ शत्रवः पाण्डुपुत्राणा, हरन्तो राज्यसंपदम् । तेनुरुद्भूतसचाना, निःसपत्नां सुखश्रियम् ॥९४८|| कौरवाः पर्यपूर्यन्त, संमदैः क्षयहेतुभिः । अन्यायसंभृताभोग-विभवैरिव दस्यत्रः ॥ ९४९ ॥
अथ दुर्योधनादेशा-द्यावदःशासनो मुदा । वासांसि पाण्डवेयाना-मपक्रष्टुमचेष्टत ।। ९५० ॥ तावत्ते स्वयमुत्सृज्य, चीवराण्यम्बरश्रियः । धृताधोवसनाः पर्ष-युपाविक्षनवाङ्मुखाः ॥९५१ ॥ ( युग्मम् ) अवैवाऽनीयता साऽपि, पुश्चली पञ्चवल्लभा । इत्यादिशन् कनीयांसं, मन्दमेषाः सुयोधनः ॥ ९५२ ॥ ततो दुःशासनो लुप्त-रीयःसाधुशासनः । स्मेरवक्ताम्बुजोऽम्येत्य, पाश्चलीमित्यवोचत ॥९५३ ॥ तेन दुर्मेधसा पत्या, हारिताऽसि दुरोदरे । त्वं जिताजसि च पाञ्चालि! धार्तराष्ट्राप्रजन्मना ।। ९५४ ॥ ततः स भवतीं प्रीति-प्रहमायति दुतम् । न वेदेष्यसि नेप्यामि, तद्भलादपि
१ क्रियाविशेषणमेतत् ।