SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ युधिष्ठिरेष वे हारितम्॥ 157 श्रीपाण्डव- क्षोणि-पणोऽयमवधि विना। हन्त दुर्योधनस्यापि, मद्रकारोऽवधिः कृतः ॥ ९२५ ॥ सर्वथा निजसाम्राज्य-निराशान् परित्रम् ॥N पाण्डवानमून् । को निवारयिता विश्वे-ऽप्यपणीकुर्वतः पणम् ॥ ९२६ ॥ मूत्रिते त्ववधौ राज्य-प्रत्याशासुस्थिताशयाः । सर्मः ६॥ अन्यायं वाग्विपर्यास लजयाऽपि न तन्वते ॥ ९२७ ।। इत्याकर्ण्य गिरं कर्णः, सदस्यानामुदाहरत् । सीमा भूमिग्रहेऽमुष्मि- बस्तु द्वादशवत्सरी ॥ ९२८ ॥ तां कर्णभारतीमोमि-त्युररीकृत्य देवितुम् । पुनः प्रावर्तिपातां तौ, द्यूतकारावुभावपि ॥९२९॥ ११७॥ हारितायां क्षणादव-कैतवेन क्षितावपि । चतुरोऽपि पणीचक्रे, बान्धवान् धर्मनन्दनः॥ ९३०॥ तैश्च दासेरवत् कर्म, कर्तव्यं छूतहारितेः । अधिमन्दिरमाजन्म, धृतराष्ट्राङ्गजन्मनः ।। ९३१ ॥ दुःखस्फुटितहन्मर्म-कीर्कसम्वनिबान्धवः । उदगात् पारिषद्यानां, महान हाहारवो मुखात् ।। ९३२ ॥ शरीरमिदमात्मीय-मस्यैव हि पुनः क तत् । यत्र कुत्रचिदित्यन्तः, खेदिनस्तस्य नानुजाः ॥ ९३३ ।। राधेय-सौबलादीना-मनिन्दन केऽपि कैतबम् । निनिन्दुर्धाराष्ट्रस्य, केऽपि विश्वस्तपातिताम् ॥१३४|| निन्दन्ति स्म नपासूनों, काँचदत्याजवं मुहुः । धृतराष्ट्र सुतस्नेह-मोहित केऽप्यनिन्दिषुः॥९३५।। (युग्मम् ) क इवैतादृशो ज्येष्ठ-बन्धुः स्वाधीनजीचितः । इति वायुसुतार्दीस्तु, तुष्टाः सर्वेऽपि तुष्टुवुः ॥९३६।। हारितेषु प्रतीपेन, वेधमाऽवरजेष्वपि । अजातरिपुरात्मानं, चकाराकृपणः पणम् ।।९३७॥ मा मेति परिपदाक्य-राक्रन्दैरनुजीविनाम्। लोकशोकप्रदेश, शब्दाद्वैत तदाऽभवत् ।। ९३८ । शृङ्गानवदिरेरापः, प्रतिषेधपरा मिरः। भीष्मादीनामवस्थानं, लेभिरे न युधिष्ठिरे ।। ९३९ ।। पणाभावात् पृथासूनु-रथाऽऽत्मन्यपि हारित । आसीकिकार्यतामूढ-स्तरुभ्रष्टप्लवङ्गवत् ॥९४०॥ १ ( मद्रकारः क्षेमकर इति शब्दकल्पदुमः । २ 'कृतोऽवधिः' इति अन्वयः) । ३ क्रीडितुम् । ४ कीकसम्-अस्थि । ॥११॥
SR No.090445
Book TitlePandavcharitra Mahakavyam Part 1
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy