________________
सभावलोकनव्याजा-दथाहातुं तपःसुतम् । हास्तिनं नगरं प्रैषी-द्धार्तराष्ट्रो जयद्रथम् ॥ ८७९ ॥ हस्तिनापुरमम्येत्य, स वेगाद्वाग्मिनां वरः । स्नेहदाक्षिण्यभूयिष्ठं, युधिष्ठिरमभाषत ।।८८०॥ देव ! दुर्योधनस्तुभ्यं, मया विज्ञापयत्यदः ।। बान्धरेष समगेषु, त्वमेव मम जीनितम् ॥ ८८१ ।। तन्ममामिनवां दिव्यां, संसदं द्रष्टुमर्हसि । मनोजमपि नाभीष्दैनदृष्टं हि मुदे सताम् ।। ८८२ ॥ इन्द्रप्रस्थं ततः प्रस्थ-मेयानन्दं वदागमे । अद्यास्तु नूतनोत्सर्प-दुत्सवक्षीवंतां गतम् ॥ ८८३ ॥ इत्याकर्ण्य तपासूनु-जयद्रथसरस्वतीम् । इन्द्रप्रस्थं ततः प्रीत्या, चचाल मरलाशयः ।। ८८४ ॥ सह दुपदनन्दिन्या, कनीयांसस्तमन्वयुः । पौरस्त्यमारुतं साध, विद्युतेक पयोमुचः ॥ ८८५ ।। तरङ्गपरनोद्धृत-मनुस्वधुनि गच्छतः । महमामीव धर्मोऽस्य, विरेने केतक रजः ॥ ८८६॥ तस्यासेदे चलैः संप-माद्यदुद्यानमण्डिता | अरिबातमनःशल्यै-रिन्द्रप्रस्थोपशल्यभूः ॥८८७॥ तं प्रत्युदगमन सैन्यैः, पृष्ठतो धृतराष्ट्रसः । पूर्व वामानिलानीत-स्तत्परागस्वभाग्यवत् ॥८८८॥ सहानीकैरजातारि-मनोरथ इवाङ्गवान् । प्राविशन्नगरं तस्य, तत्कालकलितोत्सवम् ॥ ८८९ ॥ बहिर्विकीर्णवात्सल्यं, धृतराष्ट्र युधिष्ठिरः। सबान्धवोऽपि वाह्याद्र, शमीनरुमिवानमत् ॥८९०|| नथा दुर्योधनस्तस्य, तास्ताः स्वागतिकीः क्रियाः । करोति स्म यथा मेने, तस्मिन्नकात्म्यमेव सः !! ८९१ ॥ भिद्यन्ते हि प्रदीयांसः, प्रेमभिः कृतकैरपि । दारवीयोऽपि नाराचो, भिनत्ति कदलीद्रुमम् ॥ ८९२ ॥ भीष्म-द्रोणादयो वृद्धाः, स्नेहअहिलचेतसः । चिरयत्यात्मजे पाण्डो-रिन्द्रप्रस्थापाययुः ॥ ८९३ ॥
१ प्रस्थः परिमाणविशेषः, तेन मेय आनन्दो यस्य यस्मिन् वा । २ श्रीवता-मत्तता । ३ अतिमृदवः। ४ काष्ठनिर्मितः ।