________________
श्रीपाण्डव चरित्रम् । सर्गः६॥
नलस्य राज्यप्रासिर्दीवया
स्वर्गमनं
॥११५॥
RSS
इतीयमम्बिकाइनो, नलकूबरयोः कथा । मया ने कथिता तत्त्व-मस्याः गम्यग्विचार्यताम् ।। ८६४ ॥ कवरेण जिता द्यूत-छपनेयं वसुंधरा । न नाम स्थास्नुतामागात् , “कियत्कृरधियां थियः?"३८६५। प्रत्युताभूत परा मान-ग्लानिस्तस्य दुर्धियः । “पदादध्यासितात् पात-पाकारी हि दोपताम्" ॥८६॥ तदेवं कलरोच, नमोऽप्यस्मिन् दुरोदरे । नाऽऽभाति मे शुभोदर्क-स्त्वदीयतनुजन्मनः ।। ८६७ ॥ जितामपि महीमेते, पाण्डवा नार्पयन्ति चेत् । तदा को नाम गृहीया-दत्यन्तबलवानपि ।। ८६८॥ कर्ता वा कलह कंचि-चेद्रहीतुमहंकृतः । ननर्धातिप्यते नूनं, मुतस्ते सह बान्धवैः ॥ ८६९ ॥ सत्यवाक् नपसासूनु-र्पयेता जिता महीम् । तथापि शाश्वती नास्य, जीवतो(म-पार्थयोः ॥८७०॥आच्छिमश्रीवलाचाम्यां, स कूवर इवोच्चकः । यास्यति त्वत्सुतोऽवश्यं, लोकस्यैवास्य हास्यताम् ॥ ८७१ ।। किं चेन्द्रप्रस्थमप्यस्य, तदा न स्थास्नु | मन्यते । तल्लाभमिच्छतो मूल-क्षतिः शङ्केस्य भाविनी ॥ ८७२ ॥ न कश्चिन्नलतुल्योऽस्ति, कृवरस्येव यः पुनः । श्रियं तव तनूजस्य, करस्थापि प्रदास्यति ।। ८७३ ।। देशत्यागं तदा कुर्यात् , सैप युद्धा प्रियेत वा । प्रच्युतप्राभवैः स्थातुं न शक्यं संस्तुते जने ॥ ८७४ ॥ तदेनं कथमप्यम्मा-निवर्तय कदाग्रहात् । घृतं हि नाऽऽयतिक्षेमं-करं कस्यापि दृश्यते ॥ ८७५ ।। इत्यसौ विदुरस्योक्ति- धृतराष्ट्रहदि क्वचित् । पूर्णेऽम्भोबिन्दुवन कुम्भे, नावकाशं समासदत् ॥८७६|| तावदाप्तगिरो धर्मकृत्यमायतिचिन्तनम् । गृङ्गाति देहिनां मोहो, यावन्मनसि न स्थितिम् ।। ८७७ ॥ उदारदुःखसंभार-विभिन्नहदयस्ततः । रचितोपेक्षमुत्थाय, स्वस्थानं विदुरो ययौ ॥ ८७८ ।।
१ नष्टप्रभुत्वैः । २ परिचिते ३ - गिरा' इति प्रत्यन्तरे । ५ कृतोपेक्षं यथा स्यात्तथा ।
च । विदुरो धृतराष्ट्र| मुपदिश्य स्वस्थान गतः ॥