________________
228
अथ प्रतस्थे देवर-दनेति महितो नृपः । कोशलां प्रति लक्ष्मी खां, ग्रहीष्यन् बलवानलः ।। ८४९ ।। स क्रमात्तिरयन् सैन्य-पांशुपूरैरहस्करम् । अध्यतिष्ठदयोध्यायाः, काननं रतिवल्लभम् ॥ ८५० ।। बहिरुधानमायात-माकातिबलं नलम् । कूपरस्य मनोऽकार्षीत् , संकथां मृत्युना समम् ।। ८५१॥ तं दृनेन नलोऽवादी-दीव्यं भूयोऽपि देवनैः । त्वलक्ष्यः सन्तु मे इन्त, मल्लक्ष्म्यस्तव सन्तु वा ।। ८५२ ॥ मृत्युमीतिमथापास्य, कूबरः प्रीतिबन्धुरः। भूयो छूतमुपास्त, लब्धाऽsस्वादो हि तत्र सः ।।८५३|| क्षणात् कृबरतोज्जैपीत् , काश्यपी निखिला नलः। "पुंसां भाग्येऽनुकूले हि, सिध्यन्ति सकलाः क्रियाः" ।। ८५४ ॥ राज्यं भूयोऽप्यलंचक्रे, नलोऽनलसविक्रमः । नमोऽङ्गणमिव प्रातर्देवः कमलिनीपतिः ।।८५५।। जितश्रीरपि दुष्टोऽपि, स्वबन्धुरिति कृबरः । राजाऽऽमनसा चक्रे, पूर्ववद्यौवराज्यभार ॥ ८५६ ॥ तत्तदाऽभूनलः काम, सतां श्लाघास्पदं परम् । कूबरः स पुनः कृर-कर्मा निन्दानिकेतनम् ।। ८५७ ।। प्राज्यभाग्ये नले भूयः, स्वराज्यमषितस्थुपि । माङ्गल्योपायनान्येयु-भरतार्धमहीभुजाम् ।। ८५८ ।। नलश्च दमयन्ती च, राज्यश्रीमिरलंकृतौ । बद्धोत्सर्व ववन्दाते, कोशलाचैत्यमण्डलीम् ।। ८५९ ॥ भरतार्धधराधीश-शिरोमितशासनः । भूयास्यन्दसहस्राणि, मेदिनीमभुनग्नलः ॥८६॥
आख्यातसमयोऽम्येत्य, निषधस्वर्गिणा दिवः । पुष्कलाख्ये सुतेऽन्येा-य॑स्य राज्यमरं नलः ।।८६१॥ जातसंसारवैराग्यो, वैदा सह कान्तया । जिनसेनाभिधाऽऽचार्य-पादान्ते व्रतमाहीत् ॥ ८६२ ।। युग्मम् ।। अन्तेऽनशनमाधाय, मृत्युमाप्य समाधिना । नलः सुरः कुबेरोभू-जन भैम्यपि तत्प्रिया ।। ८६३ ॥
१ सूर्यः । : आजग्मुः।