________________
श्रीपाण्डव- चरित्रम् ॥ सर्गः६॥
नलदमयन्त्यो समागमः।
॥११४॥
पुनारि समायात, परिभ्योपवेश्य च । निजे सिंहासने भीम-स्तं कृताञ्जलिरब्रवीत् ॥ ८३४ ॥ एताः श्रिय इमे प्राणा-स्त्वदीया एव भूपते ।। तस्कृत्यमादिशेत्युक्त्वा, भीमो वेत्रित्वमातनोत् ।। ८३५ ॥ दधिपर्णोऽपि संभ्रान्तः, प्रणम्य नलमभ्यधात् । देव ! प्राचीनमज्ञाना-दपराधं क्षमस्व मे ॥ ८३६ ॥ त्यक्तम्जत्ववैरूप्यो, नलः स्वं रूपमास्थितः। निर्मुक्त इव भोगीन्द्र-स्तदानीं दियुतेतराम् ॥ ८३७ ॥ सार्थेशो धनदेवोऽथ, सोपायनकरस्तदा । कुतोऽपि भीमभूपालं, द्रष्टुकामः समागमत् ॥८३८॥ पा(मालोकतोपड़तेमन-बन्धुवत्तस्य गौरवम् । कृतज्ञा कारयामास, बैदर्भी भीमभूभुजा।। ८३९ ॥ ऋतुपर्णनृपं चन्द्र-यशश्चन्द्रवतीयुतम् । तस्तं च वसन्तश्री-शेवरं भैम्यवत् ॥ ८४० ॥ भीमभूमीभुजा नित्य-मुपचारैननवैः । ते कृतप्रीतयः सर्वे, निन्युर्मासं मुहूर्तवत् ।। ८४१ ।।।
अन्येद्युः कश्चिदम्येत्य, भीमसंसदि कान्तिमान् । सुरः पश्यत्सु सर्वेषु, वैदभीमित्यवोचत ।। ८४२ ।। भैमि ! स्मरसि संबोध्य, यं पुरा तापसेश्वरम् । प्रापयिष्यसि सम्यक्त्वं, प्रवज्यां च शुभोदयाम् ॥ ८४३ ॥ सोऽहं तप्त्वा तपोऽत्युग्रं, सौधर्मे धर्ममाग्मृतः । श्रीकेसरसुरोऽभृवं, विमाने केसराहये ।। ८४४॥ यस्त्वयाऽऽकृष्य मिथ्यात्वा-दहमेंऽस्मि रोपितः। तस्यैवैतत्फलं तन्मे, त्वमत्यन्तोपकारिणी ॥ ८४५ ॥ इत्युक्त्वा तपनीयस्य, सप्त कोटीविकीर्य सः । कृतज्ञचूडामाणिक्य, यथागतमगात् सुरः ।। ८४६ ।। वसन्त-दधिपर्ण-तु-पर्णा, भीमोऽपरेऽप्यथ । अभ्यपिशभलं राज्ये, महीयांसो महीभृतः ।। ८४७ ।। ते मलादेशमासाद्य, कम्पयन्तोऽथ काश्यपीम् । सर्वाणि स्वस्वदेशेभ्यः, सद्यः सैन्यान्यमेलयन् ॥ ८४८ ॥
१ कञ्चुकरहितः।
१११४॥