________________
श्रीपाडव- परित्रम् ॥ सर्गः६॥
दषिपर्वेन महनलस विदर्भ गमनम् ॥
॥११॥
G
कथयिष्यामि, व्यावृत्तः कुञ्ज ! ते क्षणात् ॥ ८०४ ॥ कुन्जो ऽब्रवीदिदानी त्वं, कालपादिभेपि किम् ?; मा भैपीरधु- नैवैतां, राजमाख्यातुमर्हसि ।। ८०५ ॥ अष्टादश सहस्राणी-त्युक्ते भूपतिना ततः । आहत्य मुष्टिना कुञ्ज-स्तं फलौषमपातयत् ।। ८०६ ॥ रथादुत्तीर्य भूपेन, मूत्रिते गणनाविधौ । तावत्येवाभवत् संख्या, न च न्यूना न चाधिका ।।८०७॥ भूभुजे | योचते विद्या, तुरङ्गहृदयात्मिकाम् । दत्वाऽस्मादाददे संख्या-विद्या कुञ्जोऽथ विस्मयात् ॥ ८०८॥
अथाऽगादुर्दयप्रस्थे, स्यन्दनोऽनूरुसारथैः । विदर्भनगरद्वारि, कुजस्तो रथः पुनः ।। ८०९॥ तदा झगिति निःशेषैः, | सरोरुहवनैः समम् । अवाप दधिपर्णस्य, विकाशं मुखबारिजम् ।। ८१० ॥ तस्मिन्नेव निशाशेपे, खममैक्षिष्ट भीमजा। उत्थाय शयनीयाच, प्रीता पितुरचीकथत् ॥ ८११ ॥ अद्य प्रातर्मया स्वमे, प्रैक्षि नितिदेवता । तयेहानीय में व्योग्नि, दर्शित कोशलावनम् ।। ८१२ ॥ रसालं फलपुष्पान्य-मारोहं तत्र तद्राि । विक शतपत्रं च, ममार्दीत करे तया ॥८१३।। पुराऽऽरूढो झटित्येव, विहगः कोऽपि भूतले। अकस्मादपतत्तम्मा-चूतादध्यासितान्मया ॥ ८१४ ॥ भीमोऽप्यूचे त्वया दृष्टः, पुत्रि! स्वमोऽयमुत्तमः । तथा हि भाग्यसंभारः, प्रत्यक्षस्तव निवृतिः ॥ ८१५॥ कोशेलापाभवं तद्यत् , कोशलोघानदर्शनम् । माकन्दपादपाऽऽरोहः, साक्षात् ते प्रियसंगमः ।। ८१६ ॥ माकन्दाद्यस्त्वदाक्रान्ता-दंशः कस्यापि पक्षिणः । पातः पातकिनो नूनं, साम्राज्यात् कबरस्य सः ॥ ८१७ ॥ निशावसाने स्वमस्य, दर्शनान्नलसंगमः । अध भावी प्रभाते हि, स्वप्नः सद्यःफलेग्रहिः ॥ ८१८ ॥ तदोपेतं पुरद्वारि, दधिपर्ण ससंभ्रमः । अभ्येत्य मङ्गलो नाम, कोऽप्याख्यद्भीमभूभुजे।।
१ याचमानाय । २ उदयाचलशिखरे । ३ सूर्यस्य । ४ कोशलायाः प्रभुत्वम् ।
॥११॥