________________
किम् ? ।। ७८९ ॥ सोऽथ तं पृथिवीपालं, निमीलन्मुदमभ्यधात् । जम्मते भूष! किं नाम, दौमनस्यं तवाप्यदः ॥ ७९०॥ यस्य सोऽहं सहायोऽस्मि, सर्वकर्मीणतास्पदम् । तस्यापि तत्किमप्यस्ति, नैव यत् करगोचरम् १ ।। ७९१ ॥ यामाः स्वयंवसदवाकपट् सन्त्यचापि तद्यदि । मनस्ते भीमजन्मानं, तां मृगीशमिच्छति ॥ ७९२ ॥ तदर्पय रथं कंचि-दृढं जात्यांश्च वाजिनः । दर्शयामि यथा प्रातर्भुवं कुण्डिनमण्डिताम् ॥ ७९३ ॥ युग्मम् ।। गृहाण स्वेच्छयेत्युक्तः, क्षितीशेन स बुद्धिमान् । जग्राह रथमांश्थ, सर्वलक्षणलक्षितान् ।। ७९४ ॥
सजीकृत्य स्थं युक्त-वाहमाधाय च क्षणात् । इहाऽऽरोहेति तं कुम्जा , क्षोणिपालमभाषत ।। ७९५ ॥ राजा स्थगीधरश्छत्र-धारश्चामरधारिणौ । कुजवेति षडारोह-नरास्तस्मिन् वरूथिनि ।। ७९६ ॥ ततो बिल्खकरण्डौ यौ, दत्तौ निधनाकिना । तावाचध्य कटौ कुब्जा, प्राजति स्म तुरंगमान् ।। ७९७ ।। कुब्जेन प्रेरितान् वीक्ष्य, बाहाननिलरहसः । दधिपर्णनरेन्द्रोऽथ, विस्मयादित्यचिन्तयत् ॥ ७९८ ॥ अहो कश्चित प्रमानेष, मानत्येति सर्वतः। अद्यापि रत्नगर्भेयं, वहते नाम सान्वयम् ॥ ७९९ ॥ कचिद्गानिलोते, प्राचारे पतिते भुवि । नृपोऽवोचत् पटीं गृहे, धियन्तां कुब्ज! वाजिनः ।। ८००। कुब्जोऽप्युचे मितास्यस्तं, यत्र ते पतिता पटी। ततः स्थानादतिक्रान्ता, पश्चविंशतियोजनी ।। ८०१॥ इमे हि मध्यमा एव, वाहाश्वेत्तु स्युरुत्तमाः। पञ्चाशद्योजनी राज-लु रनियतं ततः॥ ८०२ ॥ वृक्षमक्षाख्यमुदीक्ष्य, काप्यथो फलमांसलम् । कुजं राजाऽभ्यधादात्म-कलोत्कर्ष विशेषयन् ॥८०३।। फलानां भूरुहस्पास्य, संख्यामगणयनपि । वेवम्यह
हर्षरहितम् । २ सर्वकर्मणि समयंतास्पदम् । ३ प्रहराः । ४ रथे । ५ उत्तरीयवस्ने ।