________________
। प्रस्तावे-ऽकययभीमभूभुजः । यथाऽस्मत्स्वामिनः पायें, सोल्ति नजाकर || हेरि वाकाया, रसवत्या
विधि सुधीः । वक्ति चास्यामुपाध्यायो, बभूव नल एव मे ॥ ७६० ॥ श्रुत्वैवल्लोकतो भैमी, भूपेमेत्य व्यजिज्ञपत् । न तां रसवतीं तात !, वेत्ति कश्चिन्नलं दिना ॥ ७६१ ॥ तत् प्रेष्य कंचिजानीहि, किंरूपः किंकलच सः । अवश्यं गोपितात्मैव, नल एवं स बल्लभः ।। ७६२ ॥ मामाहृय ततो दत्वा, शिक्षा प्रैपीद्विदर्भराटू । क्रमादत्य भद्र! त्वां, पृच्छन् पृच्छनिहागमम् ॥ ७६३ ।। एवंरूपं च वीक्ष्य त्वां, विषादादित्यचिन्तयम् । काचे मरकतभ्रान्ति-धैदाः किमभूदियम् ? ७६४॥ | नलक दिविषद्देश्यः?, कुञ्जश्चार्य व सूपकृत् । क सर्षपः१ क मेरुश्च?, क खद्योतः १ क चार्यमा ॥ ७६५ ॥ तथाऽप्येनं परीक्षिष्ये, विचिन्त्येति पठंस्त्वया । नलाक्षेपमयौ श्लोका-वापृच्छयेऽहं कथामिमाम् ।। ७६६ ।। तदस्तु स्वस्ति ते यामि, व्यावृत्य नगरं निजम् । यथादृष्टं च चैदा-स्त्वत्स्वरूपं निवेदये ।। ७६७ ॥ भैमीस्मरणसंभूतं, कथंचन ततः सुधीः । बाष्पपूरं निरुन्धानः, कुजः कुशलमब्रवीत् ।। ७६८॥ पूज्योसि कथयन् विन!, पुण्यपात्र! कथामिमाम् । तदागच्छ ममा-1 ऽऽवासं, गृहाण मम सस्कृतिम् ॥ ७६९ ॥ इत्युदीर्य द्विजन्मान-मानीय स गृहे निजे । रसवत्या तया सूर्य-पाकया तममोजयत् ।। ७७० ॥ अभूच्च भूधवाल्लब्धं, यट्टकाभरणादिकम् । तत् प्रदायाखिलं कुजो-ऽनुमेने ममनाय तम् ।। ७७१ ॥
सोऽथ विप्रो विदर्मायां, समस्येत्य विषादवान् । भैमी-भूमीमुजोः कुन्ज-स्वरूपं तदवीकथत् ॥ ७७२ ।। स्वयं रसवतीं तो च, भुक्तामाख्याय स द्विजः । टलक्षादि तत्सर्व, कुन्जदत्तमदर्शयत् ॥ ७७३ ॥ सुंसुमारजनाऽरूयाताः, करीन्द्रदमनादिकाः । कुम्जस्य ताः कला राज-प्रसादं च न्यवेदयत् ।। ७७४ ॥ अथाह मीमभूस्तात, त्वज्ञामातैव स ध्रुवम् ।