________________
श्रीपाण्डवपरिश्रम् ॥ सर्गः ६ ॥
॥ १११ ॥
महर्द्धिकः || ७४३ || तत् प्रवोध्य तदा चेन्मां व्रतं नाग्राहविष्यथाः । गतस्य नरके तन्मे, काभविष्यनिमाः श्रियः १ || ७४४ ॥ सर्वस्तव प्रसादोऽयं, चिराय विजयख तत् । इत्युक्त्वाऽगात् सुरो हेम्नः सप्त कोटीः प्रहृष्य सः ॥ ७४५ ॥ साक्षारकृत्य महीनाथ - ऽप्यध्वर्मस्य तत्फलम् । प्रत्यपद्यत तं हर्ष भरव्याप्तान्तरायः ।। ७४६ ।।
अथावसरमासाद्य, हरिमित्रोऽस्यधान्नृपम् । स्थिताऽत्र सुचिरं भैमी, यात्विदानीं पितुर्गृहे ॥ ७४७ ॥ पुष्पदन्ती चसा माता, पिता च स विदर्भराट् । प्रवासश्रवणादस्या स्तिष्ठतो देव ! दुःखितौ ॥ ७४८ ॥ ततश्चन्द्रयशोदेन्या, मतमादाय तत्क्षणात् । ओमित्युक्त्वा ततो भैमीं प्राहिणोत् मह सेनया ॥ ७४९ ॥ तामायान्तीं सुतां श्रुत्वा भीमभूपतिरभ्यगात् । निरीक्ष्य पितरं साऽसि दूरतो यानमत्यजत् ।। ७५० ॥ धावित्वा रभमामी, पादयोरपवत् पितुः । तयोः प्रीत्यनुवर्षेण, पङ्किला तत्र भूरभूत् ।। ७५१ ॥ मातरं च सहाऽऽयातां वीक्ष्याश्लिष्यत् प्रमोदिनीम् । तस्याः कण्ठे लगित्वा च, तारतारं रुरोद सा ॥ ७५२ ।। सुतां भूपः पुरं कृप्स - महोत्सवमवीविशत् । मुदा च गुरुदेवाचीं सप्तराल मकारयत् ॥ ७५३ ॥ पृष्टा भूमीभुजा कुब्ज !, जातुचिन्मम पश्यतः । तामेतां भीमभूः सर्वां, निजामकथयत् कथाम् ॥ ७५४ || ऊंचे 'च पृथिवीनाथ - स्तां स वात्सल्यया गिरा । वस्से ! विदधती धर्म, वसा मत्सदने सुखम् ॥ ७५५ ॥ करिष्यते तथा कविदतः परमुपक्रमः । यथा कुतश्चिदभ्येत्य पतिस्तव मिलिष्यति ॥ ७५६ ।। ददौ च हरिमित्राय, ग्रामपञ्चशतीं नृपः । तुष्टोऽभ्यधाच राज्यार्थ, तुभ्यं दास्ये नलागमे ॥ ७५७ ॥
अन्यदा दधिपर्णस्य, भूपतेः स्नेहवर्त्मना । दूतस्तत्र ययौ धीमान्, सुंसुमारपुरादितः ॥ ७५८ ॥ स जातु वार्ता
| दमयन्तीवृचान्यः ॥
१११॥