________________
श्री पाण्डवचरित्रम् ॥
सर्गः ६ ॥
॥११०॥
काऽपि कुत्रापि वर्तते ॥७१३|| तदुपश्रुत्य नः स्वामी, स्वामिनी पुष्पदन्त्यपि । वाताविवोन्मील- दुःखभारी मुमृच्छेतुः ॥ ७१४ ॥ मूर्च्छान्ते विलपन्तौ च समन्वेष्टुमितस्ततः । जामातरं तनूजां च प्राहैष्टां तौ तदैव माम् ॥ ७१५ ॥ प्रत्यरण्यं प्रतिग्रामं प्रतिपचनमप्यहम् । भ्राम्यन् क्रमान्महीमेतामिहेदानीमुपागमम् || ७१६ ॥ न तयोः पुनरश्रौषं वार्तामात्रमषि क्वचित् । तत्क्लेशफलमेवैतद्वभूव भ्रमणं मम ।। ७१७ ॥ श्रुत्वेति गिरमाक्रन्द-मुच्चैश्वन्द्रयशा व्यधात् । नलस्य कुर्वती निन्दां तां तां भैम्याः स्तुतिं पुनः ।। ७१८ ।। क्रन्दद्भिरनु तां लोकैः शोकाद्वैतं तदाऽखिले । जातं राजकुले नेतुरनुमा ह्यनुजीविनः ।। ७१९ ।। ततः स विप्रः क्षुत्क्षाम- कुक्षिः क्षितिपमन्दिशत् । निर्गत्य भोजनाकाङ्क्षी, दानशालां जगाम ताम् || ७२० ॥ तत्र सोऽधिकृतां प्रेक्ष्य भैमीमुत्फुल्ललोचनः । प्रधाव्य रमसा तस्याः पादपङ्केरुहेऽपतत् ।। ७२१ ।। ऊचे च दिष्ट्या दृष्टाऽसि, भ्राम्यता भुवनं मया । अद्य स्वस्त्यस्तु सर्वेषां भवजीवितजीविनाम ||७२२॥ अथैन्य स जवाचन्द्र- यशोदेवीमवर्धयत् । तच्छोकाश्रुपदेऽभूवन् क्षणात् प्रीत्यश्रुविप्रुषः ।। ७२३ ।। सत्रागारमुपत्याथ, सा मुदाऽऽलिङ्गय भीमजाम् । साश्रुरूचे बलिस्तुभ्यं क्रियेऽस्यां चावतारणम् ॥ ७२४ || हा हा धिग्मामियत्कालं, न मयाऽप्युपलक्षिता । जगद्विलक्षणाऽपि त्वमेतैर्लोकंणैर्गुणैः ॥ ७२५ || वञ्चिताऽस्मि कथं वत्से ! त्वया कृत्वा स्वगोपनम् १ | मातृस्वसापि मातैव तत्पुरः का खलु त्रपा ९ ॥ ७२६ ॥ किं त्यक्ताऽसि नलेन त्वं १, नलस्त्यतस्त्वयाऽथवा । यदि वा न पतिं जातु त्यजसि त्वं पतिश्रता ।। ७२७ ॥ विडम्बितसहस्रांशु - ललाटतिलकः क ते १ सेति मार्ष्टि स्म तद्भालं, सनिष्ठीवेन पाणिना ।। ७२८ ॥
१ भवत्या जीवितेन जीविनाम् ( भवतीशब्दस्य पुस्त्वमत्र चिन्त्यम् ।
द्विज
कथिती
दमयन्तीयृचान्तः ॥
॥११०॥