________________
218
अपरं च यदा देवि, त्वं तापसपुराद्गता । सार्थवाहस्तदा दुःखा-द्भुक्तिमप्यत्यजत् सुधीः ।। ६९८ ॥ बोधितः श्रीयशोभद्र-गुरुणाऽन्यैर्जनैश्च सः । सप्ताहा(सुजे सार्थ- बाहो निर्वाहिसंगरः॥ ६९९ ॥ उपायनमुपादाय, रसस्वर्णाधनेकपः। नृपं कुबरमद्राक्षीत, कोशलामेत्य सोऽन्यदा ।। ७०० ।। तया चोपदया तुष्ट-स्तं तापसपुरेश्वरम् । राजानमकरोनूपश्छत्रचामरलाञ्छितम् ॥ ७०१ ॥ नाम्ना चैनं वसन्तश्री-शेखरं स विनिर्ममे । प्राहिणोध पुरे प्रीत्या, मम्भया ताडयमानया ।। ७०२ ॥ प्रविश्योत्सवसोत्साहः, शास्तीदानी पुरं स तत् । साऽपि त्वन्महिमप्रौदिः, स्वामिन्येवं श्रियोऽस्य यत् ॥ ७०३ ।। ऊचेऽथ भीमभूर्वत्स !, पाप्मनोऽस्य छिदाकरीम् । दीक्षामादत्स्व सोऽप्यङ्गी-चक्रे तद्वचनं मुदा ॥ ७०४ ।। शुद्धैः सत्कृत्य पानाचै-मुनिद्वितयमन्यदा । भैमी वक्ति स्म यद्यस्ति, पिङ्गलस्यास्य योग्यता ।। ७०५॥ तदस्मै व्रतदानेन, भगवन्तौ प्रसीदतम् । मुनी अप्यूचतुर्दीक्षा-योग्य एवैष पिङ्गालः ।। ७०६ ।। प्रार्थितावथ तेनापि, चैत्ये नीत्वा तदैव तम् । प्रधाज्य तौ मुनी सार्ध-मेतेनान्यत्र जग्मतुः ।। ७०७॥
हरिमित्रोऽन्यदा विप्रः, कुण्डिनात् पूर्वसंस्तुतः। एत्य भूमिपतिं दृष्ट्वा, ययौ चन्द्रयशोऽन्तिके॥७०८॥ बद्धाजलिं निविष्टं त-मग्रे भूपप्रियाऽभ्यधात् । विदर्भभूसुजा क्षेम, पुष्पदन्न्याश्च, मे स्वसुः ।। ७०९ ॥ दम्पत्योरनयोर्देत्रि, क्षेमलक्ष्मीः सनातनी । नलस्य दमयन्याच, सा तु चिन्त्याऽस्ति सांप्रतम् ।। ७१० ॥ संभ्रान्तया किमात्येति, तयोक्तः सोऽब्रवीत् पुनः । जातु शुश्राव नः स्वामी, लोकाख्यातामिमां कथाम् ॥७११॥ यथा नलो महीमः, कूपरेण स्वबन्धुना । हारितो निरगाड्रैमी, पुरस्कृत्य पुरानिजाद ॥ ७१२ ॥ तामरण्ये परित्यज्य, सोऽममत् तदनन्तरम् । वार्ताऽपि न तयोर्विच्चे,