________________
श्रीपाडवा
परित्रम्॥ सर्गः६॥
कषितो दमयन्तीचान्तः॥
राजाऽप्युपागमत् । तद्वीक्ष्य कौतुकं भैमी, दृष्टोऽप्येवमुवाच सः ॥ ६८३ ।। धर्मः क्षोणीभृतां शिष्ट-पालनं दुष्टनिग्रहः । मात्स्यो न्यायोज्यथा वत्से, भवेद्भवनपस्मरः ॥६८४॥ लोकेभ्यः करमादाता, चौरेम्यस्तानरक्षिता । तदीपैलिप्यते राजा, पातकरिति हि स्मृतिः ॥ ६८५ ।। तन्मोचयसि चेदेनं, भविष्यत्यव्यवस्थितिः । इत्युक्ता भृभुजा भैमी, दयालुरिदमब्रवीत्
॥ ६८६ ॥ तात ! दस्युर्विपद्येत, यदि दृष्टोऽप्यसौ मया । तदहद्धर्मवेदिन्याः . केयं मम कृपालुता ॥ ६८७॥ तदाग्रहमिति | ज्ञात्वा, राजा दस्युममोचयत् । माननीया महासत्यो, हन्त भूमीभुजामपि ॥ ६८८ ॥ स दस्युस्तत्पदाम्भोज-मानम्येति | तदाऽवदत् । देवि ! माताऽसि मे नव्य-जन्मदानादतःपरम् ।। ६८९ ॥ इत्युक्त्वा स जगाम स्वं, स्थानमानन्दमेदुरः । अभ्येत्य चानमन्नित्यं, मातेत्यस्याः क्रमाम्बुजम् ॥ ६९० ॥ ___पृष्टोऽन्यदा स वैदा , स्वं स्वरूपमचीकथत् । वसन्तः सार्थवाहोऽस्ति, यस्तापसपुरप्रभुः ॥ ६९१ ॥ तस्याहं पिङ्गलो नाम, दासस्तत्सदनेभयदा। खात्रं दत्वाऽपहृत्याथ, रत्नजातं पलायितः ॥६९२॥ मार्गेऽन्पर्खण्टितौरैः, "क्षेमं दुष्टास्मनां कृतः1" अत्रायातः क्रमेणाहं, राजसेवामसूत्रयम् ॥६९३॥ परेचवि नृपावासे, संचरत्रनिवारितः । वीक्ष्य शून्याम
पाहार्य, तां माणिक्यकरण्डिकाम् ।। ६९४ ॥ वेगात् प्रक्षिप्य कक्षायां, तां सर्वाङ्गावगुष्ठनः । राज्ञा निर्यनलक्ष्येऽहं, दक्षा की हीङ्गितवेदिनः ॥६९५ ।। समारक्षकाग्रण्यः सोऽथ मां वध्यमादिशन् । तत्पुंभिर्नीयमानं च, हन्तुं स्वामिन्यमोचयः ॥६९६।। तद्देवि ! त्वत्प्रसादस्य, कापि नानृण्यमस्ति मे ! कादम्बिन्याः कथं नाम, जीवलोकोऽनृणी मवेत् ? ॥ ६९७ ॥
१ एको महामत्स्योऽन्य लघुमत्स्य खादति, तं चान्यः, तं चान्य इति न्यायः ।
॥१०॥