________________
2
प्रयोगाखिक्वामि स्वाभिः परिवृताऽचलत् ||६६७|| मम चन्द्रयशा मातुः पुष्पदन्त्याः सहोदरा । इति ज्ञातेयमज्ञासी-न जातु नलवल्लभा ॥ ६६८ ।। जामेयी दमयन्ती मे ऽस्तीत्यजानानृपश्रिया । तदानीं बाल्यदृष्टत्वात् तां नोपलक्षयत् पुनः ॥ ६६९ ॥ यावदायाची वीणा तथापि ताम् । तच्वेनाविदितेऽप्यर्थे, प्रमाणं हि मनः सताम् ||६७० || प्रक्षिप्मंशिरसं मातृ स्नेहेनाहि सरोरुहे । उत्थाप्य साध्वदद्वैमीं प्रीतिकल्लोललोलिता ॥६७१|| वत्से ! त्वमसि मे पुत्र्या-चन्द्रवस्याः प्रियस्वसा । उभे अपि युवां लक्ष्मीं, तत्कृतार्थयतं मम ।। ६७२ ।। परमात्मस्वरूपं मे, कथयेत्युदिताऽनया । सार्थपुंसां यदाख्यातं, तदेवाख्यन्नलप्रिया ॥ ६७३ || दीनानाथकृते चन्द्र- यशोदेन्याः पुराहिः । वर्तते सुकृतोद्वारं, सत्रागारमवारितम् ||६७४ || भैम्यूचे वां ततः सूत्रे, दानं दास्येऽहमन्त्रहम् । यदि नाम पर्ति दीक्षे, जात्वस्मिन् भोजनार्थिनम् ||६७५॥ ओमित्युक्ते तया भैमी, सत्रे दानं ददौ स्वयम् । तेन तोषं विशेषेण, कलयामासुरनिः ।। ६७६ ||
साऽपश्यत् कंचिदन्येद्युः, सत्रस्था बद्धमग्रतः । चौरमारक्षकैर्नीय-मानमाहवडिण्डिमम् ॥ ६७७ ॥ स तां वीक्ष्यावदद्दीनं, रक्ष मां देवि ! रक्ष माम् । सा कृतं किमनेनेति, पप्रच्छारक्षकांस्ततः ।। ६७८ ।। तेऽप्यूचुरमुना चन्द्र-त्या रत्नकरण्डिका । जहे तेनैष वध्यत्वा-त्रीयते भूमिकाम् || ६७९ ॥ ततः साऽवोचदारक्षा-नेनं मुञ्चत मुञ्चत । सर्वत्रोत्तरमेतस्य कर्तास्मि किमतः परम् १ || ६८० ॥ इत्युक्तेऽपि तया यावत्, ते न मुञ्चन्ति तस्करम् । तावत् साऽऽच्छोदयद्वन्धां स्वस्याम्भचुलुकैखिभिः ||६८१ ॥ ते झटित्यत्रुटस्तस्य, तत्मतीत्वप्रभावतः । नागराणां ततो जज्ञे, हर्षकोलाहलो महान् ||६८२ ।। तमुपश्रुत्य संभ्रान्त-स्तंत्र
१ प्रेमोहारि मुखं यासां ताभिः । २ प्रक्षिप्रं शिरो यया ताम् ।