________________
दमपन्तीतान्दः ।।
श्रीपाण्डव- चरित्रम् ॥ सर्गः६॥ ॥१०८॥
सुप्तामेकाकिनीमत्र, मां संस्यज्य पतिर्ययौ । पान्धवा ! गमयचं मी, तत्वापसपुराध्चना । ६५३ ॥ तेऽप्यूचुर्य सूर्योऽस्तमेत्यध्याऽस्य पुरस्य सः । तं तु दर्शयितुं नाल-मिदानीमुत्सुका वयम् ।। ६५४ ॥ आगताः स्म इहाम्भोऽर्थ, सार्थादायासि तत्र चेत् । कुत्रापि वसतिस्थाने, नयामस्त्वां मुखेन तत् ।। ६५५ ।। साऽथ तैः सह सार्थेऽगा-द्वनदेवस्य तेऽपि ताम् । कथामाख्याय तत्प्रोक्ता, साधनतुरदर्शयन् । ६५६i सांधशोऽपि ममासि त्वं, सुता नेप्यामि तत् सुखम् । त्वां स्थाने वसतीत्युक्त्वा, स्नानादिमिरनन्दयत् ॥ ६५७ ॥
तामारोप्याद्भुते याने, सार्थेशोऽथाचलत् प्रगे । नीत्वाऽचलपुरद्वारि, क्रमाचना मुमोच सः ॥ ६५८ ॥ तत्राध्वचङ्कमक्लान्ता, वाप्यां कस्यांचिदप्यसौ । प्रविश्य जलपानादि, विधाय बहिरागमत् ।।६५९|| आकाशपतितेवासी, पावयन्ती दृशा | |पुरम् । किंकर्तव्यजडा वापी-द्वारवेधामुपाविशत् ।। ६६०॥ ऋतुपर्णो जनाकये-कीर्तिस्तत्र नृपस्तदा । चन्द्रोपमयशा
चन्द्र-पशाश्चास्य प्रियाऽभवत् ॥ ६६१ ॥ तस्याश्चेट्यस्तदा वाप्यां, नीरमाहर्तुमागताः । तामपश्यञ्जगतो-हारिरूपां सविस्मयम् ।। ६६२ ॥ वाप्यन्तर्वलितग्रीवं, ताः पश्यन्त्योऽथ तां मुहुः । अनःशनैर्विशन्ति स्म, निरीयुश्च अनःशनैः ॥६६३॥ गत्वा कौतुकिताश्चन्द्र-यशसे तां न्यवेदयन् । आनेतुं माऽपि तां प्रीत्या, भूयोऽपि प्रजिघाय ताः ॥६६४॥ एत्य तास्तत्र । सामूचु-देवी चन्द्रयशाः शुभे । वामाह्वयति भूयस्या, पुत्रीप्रीत्या नृपप्रिया ।। ६६५ ॥ एत्य तत्प्रेमपीयूष-स्तापं निर्वापयात्मनः । त्वं स्थिताच पुनः शून्य-चेताः स्थलमवाप्स्यसि ॥ ६६६ ॥ इत्यासां वचनैर्भेमी, प्रहीभृतमना मनाक ।
१ निर्जलप्रदेशम् ।
||१०८॥