________________
दृश्यत्वं, ततो व्यावर्तते स्म सा ॥ ६३७ ॥ कंदरायाः पुनर्मार्ग-मज्ञात्वा गहने बने । भीमभूरुभयप्रष्टा, दुःखक्लिष्टेत्यचिन्तप । ६६८॥ अहो! किमतगे देव-मपकारि पदे पदे । येनाभवदिदानी मे, न पान्थो न च कंदरा ॥ ६३९ ।। किं करोमि क गच्छामि, घोरेऽस्मिन् पतिता बने ? । भावी मृत्युरपि श्रेया-नार्तध्यानस्पृशोऽत्र मे ॥६४०॥ इत्याकुलमनास्तस्मि-मश्रुपूराऽविलेक्षणा । ययौ तस्थावुपाविक्ष-द्यलुठव्यलपच्च सा ॥६४१॥ भ्राम्यन्तीं च बने काचि-तामपश्यनिशाचरी । मा स्म गा भक्षयिष्यामि, भवन्तीमित्युवाच च ॥६४२॥ तां वीक्ष्य भयसंभ्रान्ता, चभापे भीमनन्दिनी । नलादन्य पुमांसं चेत् , स्पृशत्यपि न मे मनः ॥६४३॥ ममाहनेव देवश्चे-द्रवश्चेत् सुसाधवः। रतिश्चजनतचे च, हताशा भव राक्षसि ! ॥ ६४४ ।। (युग्मम् ) इति तस्या गिरा मन्त्र-बाचेव च्युतविक्रमा । ययौ नक्तंचरी नत्वा, "सत्यो हि दुरतिक्रमाः" ।।६४५॥ ततो दत्तजलभ्रान्ति-मृर्मिमत्सिकताचिताम् । कचिदिगरिनदी कांचि-दुदैन्यन्ती जगाम सा ।। ६४६ ॥ तामनम्मसमालोक्य, सा जमाद तृषार्दिता । मनो मे यदि सम्यक्त्व-सौरभ्यसुरभीकृतम् ॥ ६४७ ।। तदेतस्यां पयः प्रादु-स्तु द्रागमृतोपमम् । इत्युक्त्वा पाणिंना स्वैरं, महीतलमताडयत् ॥६४८॥ (युग्मम् ) साऽभूत् कूलंकपाऽन्वर्थ-नामाऽम्भोभिस्तदुत्थितैः । स्नात्वा पीत्वा पयश्चास्यां, भैमी निन्ये परिश्रमम् ॥६४९ ।। पुरो यान्ती च सा खिन्ना, न्यग्रोधस्य तले कचित् । निविष्टा पथिकैः कैश्चित् , सार्थाऽऽयातैरभाष्यत ।। ६५० ॥ भद्रे! कासि ? किमत्रासि, वटस्याधो निषेदुषी' । ईगद्वतरूपा त्वं, काचित्रु वटदेवता ।। ६५१ ॥ अथाह भीमभूर्नाई, देवता किं तु मानुपी । वणिकपुत्री समं पत्या, यान्त्यभूवं पितुहे ॥६५२॥
१ उदकमिच्छन्ती । २ नदी ।
N