________________
बीपाडवा
चरित्रम् ॥
समः॥
॥१०॥
2.) वैदी याचमानां च, व्रतं स गुरुरब्रवीत । त भोगान भोक्ष्यसेऽद्यापि, तद्दीक्षा ते न युज्यते ॥ ६२२ ॥
दमयन्तीप्राग्भवे हि नलो राजा, मम्मणोऽभून्महीपतिः । त्वं तु वीरमती नाम, तस्याभूर्दयिता किल ।। ६२३ ॥ युवाभ्यां वृत्तान्तः ।। जातु गच्छद्भया, क्रीडया मृगयावने । सार्थेन सार्धमागच्छन् , ममुख मुनिरक्ष्यत ॥६२४॥ कोपादशकुनं सोऽय-मिति स्वैः पत्तिभिस्तदा । तं संग्राह्य निवृत्याशु, युवामागमतं गृहम् ।। ६२५॥ कथंचिदपि विस्मृत्य, कोपमाकार्य तं मुनिम् । क गन्तासि? कुतश्चामा ? इत्यवार्तयतं युवाम् ॥ ६२६ ।। ततस्तद्गिरमाकर्ण्य, शमामृततरङ्गिताम् । सान्द्रानन्दं तमभ्यर्य, मुनि व्यसृजतं युवाम् ॥ ६२७ ॥ युवाभ्यां यत्तदा रुद्धः, साधुादशनाडिकाः । तेनायं विरहो जजे, युवयोदशाब्दिकः ॥ ६२८ ॥ वर्षस्य द्वादशस्यान्ते, तेन पत्या समेयुपी । पुनस्त्वं तादृशानेव, भोगान् वैदर्भि! भोक्ष्यसे ।। ६२९ ।। गतायामथ यामिन्यां, पशोभद्रगुरुर्गिरेः। उत्तीर्यालंकरोति स्म, तत्तापसपुरं पुरम् ॥६३०॥ शान्तेश्चैत्यं प्रतिष्ठाय, स तस्मिन् देशनाम्बुधिः । सम्यक्त्वारोपणं चक्रे, पौरलोकस्य कोटिशः ॥ ६३१ ॥ विदर्भजन्मनस्तत्र, निवसन्त्या गुहागृहे । अतीयाय जिनोपास्ति-परायाः सप्तहायनी ॥ ६३२॥
अन्यदा कश्चिदम्येत्य, सद्गृहाद्वारमध्वगः । सुधामुचमिमां वाच-मवोचन्नलवल्लभाम् ॥ ६३३ ॥ वैवार्भ त्वत्पतिना-10 ति-दूरे देशे मयेक्षितः । उत्सुकोऽहं तु गन्तास्मि, सार्थो मे न प्रतीक्षते ॥ ६३४ ॥ इत्युदीर्य प्रयाति स्म, स पान्धस्त्वरितक्रमम् । साऽपि तच्छब्दमाकर्ण्य, गुहातो निरगाजवात् ॥६३५|| भद्र ! भद्र! त्वया सोऽयं, क दृष्ट ? इति भाषिणी । पान्थं तमनुधावन्ती, भीमभूर्विपिनेऽपतत् ॥ ६३६ ॥ गच्छन्त्याश्च पुरस्तस्या, निःस्वाया इव शेवधिः । पान्थः सोऽगाद- | ॥१०७॥