________________
210
क्रमादेत्य, भैमीं कुशलशालिनीम् । अर्चयन्तीं जिनस्यार्चा, स निघ्याय दधौ मुदम् ॥ ५७५ || नत्वा चोपाविशत् पार्श्वे, भीमजाऽपि समाप्य ताम् । देवाच स्वागतप्रश्न- पूर्वकं तमवार्तयत् ॥५७६ ॥ सोऽथ पप्रच्छ तां कस्य, देवस्यार्वेयमर्च्यते ? | साऽपि शान्तिजिनेशस्य, षोडशस्येत्यचीकथत् ॥१५७७|| आकण्यैतां तयोर्वाच- मन्योन्यालापशालिनीम् । आसन्नाश्रमवास्तव्या-स्तत्रायान्ति स्म तापसाः ।। ५७८ ॥ सार्थेशाय ततो भैमी, तेषु संनिधिवर्तिषु । विशुद्ध मार्हतं धर्म-महिंसाद्यमुपादिशत् ॥ ५७९ ॥ सोऽप्युन्मीलन्मनोभाव - त्रुट्यत्कर्मततिस्ततः । भैमीमेत्र गुरुकृत्य, तं धर्म प्रत्यपद्यत ॥ ५८० ॥ ऊचे चाहं पुरा नाम्ना, वसन्तोऽस्म्यधुना पुनः । सत्यीकृतस्त्वया धर्म-तिलकस्य सौरयेः ॥ ५८१॥ तत्रान्तरे च धाराभिः, सगोत्राभिः शरोत्करैः । चर्षितुं कलितोत्कर्ष- मारेमे स्तनयित्नुभिः || ५८२|| ताभिरम्भोदधाराभि-राद्दतास्ते तपस्विनः । वञ्श्चयामः पयः ha - दित्यभूवन् भयाकुलाः || ५८३ ।। ततो मा भैष्ट मा भैष्ट, तापसा ! इति वादिनी । कुण्डिनेशात्मजा कुण्डे, यया तान् परितोऽकरोत् ||५८४|| उच्चैरूचे च यद्यस्मि, सती यद्यस्मि चाहती। ऋजुस्वान्ता च यद्यस्मि, मास्मिन् वर्षतु तद्वनः ॥ ५८५ ॥ तथैवाभवत्तेऽथ वापसा इत्यचिन्तयन् । काचिदेवीयमन्यस्याः, शक्ति-रूपे न हीद्दशी ॥ ५८६ ॥ वृष्टेरुपरमे धर्म, निन्दन्तः स्वं दयोज्झितम् । विस्मितास्ते तदाख्यातं, धर्म सम्यक् प्रपेदिरे ।। ५८७ || पुरमुड्डामर श्रीकं, तत्र सार्थपतिर्व्यधात् । चैत्यं च शान्तिनाथस्य, काम्याकारमकारयत् ||५८८॥ यतः पञ्च शतान्यस्मिन् प्रत्यषुध्यन्त तापसाः । तेन ख्यातिमगाद्धात्र्य, तत्तापसपुराख्यया ॥ ५८९ ॥ नैगमप्रमुखाः सर्वे पुरुषार्थनिकेतने । तत्राभ्येत्य वसन्ति स्म, स्वैरमुचावचाः प्रजाः ||५९०||
१ दृष्ट्वा । २ मेचैः । ३ ' सर्वपु० ' प्रतिइय० ।