________________
श्रीपाण्डव
चरित्रम् ।।
सर्पः६॥
ब्रूहि तत्किमिदानीं ते, मनोऽभीष्ट करोम्यहम् । निशम्येति वचस्तस्य, कुण्डिनेशसुताऽवदत् ॥५६०॥ यदि तुष्टोऽसि मे सत्य, दमयन्तीराक्षस ! व्यन्तरेश्वर ! । तदाचक्ष्व कदा भावी, पत्या मम समागमः ॥५६॥ विलोक्यावधिना मद्य-स्तामवोचनिशाचरः। वृत्तान्तः। अतिक्रम्य परित्याग-दिनावादशहायनीम् ।। ५६२ ॥ पितृधाम्नि स्थितायास्त, भविता पतिसंगमः । तदादिशसि चेत्तत्त्वां, तत्र वेगामयाम्यहम् ॥ ५६३ ।। (युग्मम् ) अथोचे भीमभूर्भत-समागमनिवेदनाद । किं नाम नोपचक्रे मे, त्वया दाक्षिण्यसिन्धुना ? ॥ ५६४ ॥ किं त्वन्यपुरुषैः साकं, क्वचिन्नैव ब्रजाम्यहम् । तद्गच्छ स्वस्ति ते भूया-धर्मगृह्यो भवेश्चिरम् ॥५६५।। ततः प्रेसप्रमाजाल-मालोलमणिकुण्डलम् । दर्शयित्वा निजं रूपं, तस्यै रात्रिचरोऽगमत् ।। ५६६ ।।
अथ द्वादशवर्यान्ते, विज्ञाय पतिसंगमम् । भैमी सतीव्रतोत्सा-नग्रहीदित्यभिग्रहान् ।। ५६७ ॥ रक्तवासांसि ताम्बूलं, कुसुशामरणानि च । विकृतीश्च ग्रहीयेह-मर्वाग्म प्रियदर्शनात् ॥ ५६८ ॥ सा चलन्ती पुरो नाना-फलितनुमशालिनीम् ।। येतास्वास्थ्यकरी प्राप, कंदरां कस्यचिगिरेः ॥५६९।। तत्राम्भोदागमं नेतु-मवस्थानं चकार सा । प्रतिमा मृन्मयीं शान्तेस्तत्कोणे च न्यवीविशत् ॥ ५७० ॥ स्वयंगलितपुष्पैस्ता-मयन्त्यनुवासरम् । धर्मध्यानामृताम्भोधि-स्नानमानन्दमानसा ॥ ५७२ ॥ चतुर्थादि तपः शश्व-द्वितन्वाना निरत्ययम् । कुर्वाणा पारणां वृक्ष-फलैः स्वरसपातिभिः ।। ५७२।। एकाकिन्यपि निर्मीका, स्मरन्ती चार्घमर्षणम् । परमेष्ठिनमस्कार-मन्त्रं सा कालमत्यगात् ॥ ५७३ ।। (त्रिभिर्विशेषकम् )
सोऽथ सार्थपतिः साथै, तामपश्यग्नितस्ततः । मा स्म भूत् कचिदक्षेम-मित्यानुपदिकोऽभवत् ॥ ५७४ ॥ कंदरां तां | १ पापनाशनम् ।