________________
208
करपाणि, कार्बति र महिः १ । अस्मिन्नेकाकिनी किं वा वने भ्राम्यसि निर्जने ? ॥ ५४५ ॥ ततोऽस्मै बान्धबाव, भारत्या दैन्यशून्यया । भीमभूरा मल्यूता - निजामकथयन् कथाम् ।। ५४६ || रक्षणानलपत्नीत्वज्ञानाचैव विशेषतः । प्रीतिमन्तर्वहन् भैमीं निन्ये पटकुटी निजाम् ||५४७॥ स्नान- क्त्यादिना तत्र, हृतश्रान्तिमधारयत् । स तैस्तैरुपचारैस्ता-मारांष्यद्देवतामिव ॥ ५४८ ॥
अथ प्रववृते प्रावृ-र्जामुरजनिस्वनैः । जनेभ्यः शिखिनां नृत्तं दर्शयन्ती वने वने ॥ ५४९ ॥ ततो मुशलधाराभिः पुष्करावर्तकोपमाः । विरामरहितं मेघा स्त्रिरात्रं पुस्तराम् ॥ ५५० ॥ तदा शकटसंचार - मङ्गमञ्जरितोर्जितः । चिक्रीड fafe पङ्कः, क्षोभयन् पचिकत्रजान् ॥ ५५१ ॥ चिरावस्थानमाशङ्कय, सार्थस्य नलबल्लभा । केनाप्यविदिता वृष्टि - पर्यन्ते निर्ययौ ततः || ५५२ || यान्ती च पुरतो रौद्र-मञ्जनाचलसोदरम् । फेस्कारनिर्यदास्योल्का - निरस्तसतडिद्वनम् ॥५५३॥ नरास्थिभूषणं दंष्ट्राकरालं कत्रिकाकरम् । साक्षादिव यमं भैमी, कंचिदक्षिष्ट राक्षसम् ।। ५५४ ॥ ( युग्मम् ) भाषते स्म सवां भीति- कल्लोलवरलेक्षणाम् । व यासि ? भक्षयिष्यामि त्वामेष क्षुधितश्चिरात् ॥ ५५५ ॥ ततः सौष्ठवमालम्ब्य जगाद नलगेहिनी । निशम्य मदिरं कुर्या स्तुभ्यं यदिह रोचते || ५५६ ॥ न नाम परमार्हत्याः, किंचिन्मृत्युभयं मम । " मृत्योर्हि संभृतानेक सुकृतो नाभिशङ्कते ॥ ५५७ ॥ किं तु मामनिशं पूत-मानसां परमेष्ठिभिः । पराननां स्पृशश्रेत्र, भद्र! यास्यसि भस्मसात् ।। ५५८ || राक्षसस्तामवष्टम्भ-मयीमाकर्ण्य तहिरम् । ऊषे कल्याणि ! तुष्टोऽस्मि, सच्चैनैव तवामुना ।। ५५९ ।।
"
१. लक्षणा० प्रतिद्वयः । माराध्यन देव० ' प्रतित्रयः । ३ उल्का तेजोविशेषः ।