________________
श्रीपाण्डव- चरित्रम् ॥ सर्गः६॥
द्विजकथितो दमयन्ती. वृत्तान्तः॥
॥१०४॥
पतिशून्यानां, पितैव हृदयातिहत् ।। ५३१ ।। पति विना तु तद्गहे, वसन्त्या निस्तनूरुहः । साच्या अपि कुरङ्गाक्ष्याः, पराभूतिः पदे पदे ॥ ५३२ ।।
इत्यालोच्य पितुर्गेह, प्रत्यचालीन्नलप्रिया । कांदिशीका दृशौ दिक्षु, प्रक्षिपन्ती मुहुर्मुहुः ॥ ५३३ ॥ दर्भमूचिव्यथोद्भूत- शोणितारुणितक्रमा । पाटितोमयजक्वा च, क्षुद्रर्बदरीवणैः ।। ५३४ ।। मलीममांशुका स्वेद-मेदुरा रेणुरूषिता । । विकीर्णकुन्तला बक्त्र-मभितस्तरलेक्षणा ।।५३५।। प्रेयोविरहपीडाभि-निंगीणनिखिलव्यथा। दरिद्रखीत्र सा मार्गे, त्वरित त्वरितं ययौ ॥ ५३६ ॥ (त्रिभिर्विशेषता । जाङ्गुलीमिन भोगीन्दा, मिट्टीपिव वनद्विपाः । बहिज्वालामिव व्याघ्रा-स्तां सती वीक्ष्य दुद्रुवुः ।। ५३७ ॥ यान्ती चाचिन्तयद्यावत् , सार्थः कश्चिद्भवेद्यदि । तेन साकमरण्यस्य, पारमस्य ब्रजाम्यहम् ॥ ५३८ ।। तावत्पुरः पराभोग-भासुरं लोकसंकुलम् । संकटं शकटवातैः, सार्थ कंचिदुर्दक्षत ।। ५३९ ॥ (युग्मम् ) तमासाद्याभवद्रेमी, यावत् स्वस्थमना मनाङ । तावत् स रुरुधे हक्का-मुखरैर्दस्युभिः क्षणात् ॥५४०॥ सा तानू भुजाऽवादी-दरे रे! यात तस्कराः।। आरम्भोऽस्मिन् मया वाते, सार्थेऽनर्थफलो हि वः ॥५४१॥ तामवज्ञाय भृतात्ता-मिव वातकिनीमिव । यदा लुण्टयितुं सार्थ-स्तैर्बलादुपचक्रमे ॥ ५४२ ।। ध्वस्तद्विपदहंकारान , हुंकारान् सामुचत्तदा । सिंहीरवैरिवामीभि-स्ते कुरङ्गा इवानशन् । | ५४३ ।। ततो नः पात्यसौ नून, काऽप्यस्मत्कुलदेवता । इति मार्थपतिभक्त्या, तां ससार्थजनोऽनमत् ॥५४४॥ पृच्छति स्म च
निवसन्त्यास्तनूरुहः ' प्रतिय० । २ निगीर्णा अन्तर्भाविता निखिला व्यथा यया सा। ३ जाकुली विषविद्या : | ४ 'पुराभोग. ' प्रतित्रवः ।
१०४