________________
206
विद्याघरी काचित् काऽपि वा वनदेवता । सुभगं तमपाहार्षीत् सोऽन्यथा न जहाति माम् ॥ ५१६ ॥ नर्मणा वा किमस्त्वेष, व्रतत्यन्तरितः क्वचित् । तत्तमुत्थाय पश्यामि क गन्ता स ममाग्रतः १ ॥ ५१७ ॥ इत्युत्थाय प्रतिक्षोणी-रुहमुद्रीक्षणादपि । निनं कान्तमपश्यन्ती, रुदत्युचैर्जगाद सा ।। ५१८ ।। एह्येहि त्वरितं नाथ !, याति मे हृदयं द्विधा । चिरं न खलु नर्मापि, शर्मदं भवति क्वचित् ॥ ५१९ ॥ इत्याद्यैर्वचनैः कान्ते दृग्गोचरमनीषि । विदर्भदुहितेत्यन्तः स्वमस्यार्थे व्यचारयत् ||५२० || यभूतो मत्प्रियः सोऽयं राज्यं पुष्पफलादिकम् । तद्भोग फलास्वादः, षट्पदाश्च परिच्छदः ||५२१॥ मूलादुन्मूलनं यच्च, चूतस्य वनदन्तिना । मदीयप्रेयसो राज्या-द्धंशनं कुबरेण तत् ।। ५२२ ।। यच्चाहं पतिता चूतात् प्रियेण Page | Faना नूनं बल्लभो दुर्लभोऽधुना ॥ ५२३ ।। इत्यालोच्य ययाँ मृच्छौं, दुःखसंभारनिर्भरा । उच्चैश्व प्राप्तचैतन्या, रुरोद व्यलपच सा ॥ ५२४ ॥ हा ! नाथ ! किं तवाभूवं, हताऽहं भारहेतवे ? । स्थूले अपि निजे शृङ्गे, भाराय वृषभस्य किम् ? ।। ५२५ ।। न दृष्टः काप्ययं पन्थाः, सात्त्विकानां विवेकिनाम् । यदीदृशि बने पाणिगृहीती त्यज्यते प्रिया ।। ५२६ ॥ नैष ते यदि वा दोपो, मत्कर्मैवापराध्यति । भवेन्मतिविपर्यास-स्त्वाद्वशामपि किं कचित् ? ।। ५२७ ॥ जल्पं जल्पमितिप्रायं तारं प्रकुर्वती मुहुः । अरोदयइने भैमी, श्वापदान् पादपानपि ।। ५२८ ॥ पटप्रान्ते चिरात् कान्य-प्यक्षराणि निरीक्ष्य सा । वाचयामास सानन्दं दध्यौ चान्तः स्मिताशया ।। ५२९ ।। दिष्वाद्याप्यस्मि तचेतः केतकीकाननालिनी । ददौ मे गमनाऽऽदेशं, पत्स्वयं लिखितावरैः ।। ५३० ॥ तन्यग्रोधाध्वनाऽनेन पितुर्वेश्म व्रजाम्यहम् । नारीणां
१ हास्येन । २ अप्राप्ते सति ।