________________
204
तत्रैव वर्तते ॥ ४८६ ।। हुण्डिकः सूपकारोऽस्मि, नलस्य पृथिवीपतेः । स एव हि कलाः सर्वाः, प्रीतिपाचे मयि न्यधात् । ।। ४८७ ।। किं च देति स वा सूर्य-पाका रसवती भुवि । अहं वा तत्पदोपास्ति-प्रसादाद्वेधि नापरः ।। ४८८ ॥ सोऽधुना कूबरे बन्धौ, क्षोणिं मंक्षु दुरोदरे । हारयित्वां सदारोपि, जगाम जनवदनम् ॥ ४८९ ॥ विषेदे तत्र स स्वां तु, कलानिलयमागमम् । धितोऽइमविशेषत्रं, मायिनं न तु कूवरम् ॥४९०|| आकर्ण्य दधिपर्णस्तां, नलमृत्युकथामथ । रुरोद प्रेतकृत्य च, चकार सपरिच्छदः ।। ४९१ ॥
जातुचित् सूर्यपाकायां, रसवस्यां कुतूहली । हुण्डिकाय नृपः शालि-प्रमुखं सर्वमार्पयत् ।।४९२।। स स्थालीरातपे न्यस्य, विद्यां वैवस्वती स्मरन् । चक्रे रसवतीं दिव्या-मशेषरसयेशलाम् ॥ ४९३ ॥ तया च भोजयामास, राजानं सानुजीविनम् ।। प्रीतश्चास्मै ददौ सोऽपि, वस्त्रालंकरणादिकम् ॥ ४९४ ॥ लक्षमेकं च टकानां, ग्रामपञ्चन्नतीमपि । सर्वमेतद्विना ग्रामान , हुण्डिकोऽप्यग्रहीत्तदा ।। ४९५ ॥ ततो भूयोऽपि भूपालः, प्रीतिमांस्तमभाषत । कुब्ज ! सर्व ददे तत्ते, यदन्यदपि वाञ्छसि ॥ ४९६ ॥ इत्युक्तः क्षोणिपालेन, कुब्जः स्मेरेक्षणोऽवदत् । राजन् ! यावद्भुवः खण्ड, भुजादण्डः प्रशास्ति ते ।।४९७। चूंतं मचं मृगव्यं च, तावति प्रतिषिध्यताम् । इत्यस्य वचसा सर्व, तच्चकार धराधवः ॥ ४९८ ॥ (युग्मम् ) तत्रैव परमं राजप्रसादमधिजग्मुषः । वसतस्तस्य भ्यासि, हायनान्यतिचक्रमुः ॥ ४९९।।
परेधवि सरस्तीरे, दुमच्छायां निषेदुषः । कुन्जस्याभ्यर्णमभ्येत्य, विप्रः कश्रिदुपाविशन् ।। ५०० ॥ सोऽध मर्चाङ्गमा| १ सूर्यसंबन्धिनीम ।