________________
श्रीपाण्डव- चरित्रम् ॥ सर्गः१॥
गायनौपतिसंवादः।।
कमनीयायाः, श्रूयते जनकः श्रियः । प्रजानुरागजलधिः, सोऽपि त्वग्येच जम्भने ।। १८९ ॥ संहतो दुहितुः पश्य-मायतो दुःखमायतम् । ग्रम यातिक्रमं तेन, कृतवानस्मि ते पितुः ॥ १९ ॥
जगाद शान्तनोः सूनु-र्मातामह ! महान भ्रमः । तवैष यदिदं वाक्यं, तुच्छोचितमुदाहरः ॥ १९१ ।। भिदेलिमा हि प्रकृतिः, कुरुवंशान्यवंशयोः । भवेत् स्वभावो न होकः, कलहंसबकोटयोः ॥ १९२ ।। सापत्न्यमिति संवन्धो, विवेकिनि कुरोः | कुल । अभूतपूर्व एवायं, नव विज्ञायते क्वचित् ॥१९३।। मम सत्यवती माता, गङ्गानोऽपि विशिप्यते । संवन्धो जन्मसंबन्धाद , प्रतिपन्नो महाननु ॥ १९४ ।। यस्त्वस्या भविता सूनुः, म ममैवोपयाचितैः । शुभः स देशः कालो चा, यत्र भ्रात्रा समागमः ॥१९५ ।। स्वादयिष्यति ते पुत्री, पुत्रेण विहितं मया । मुखं बिनयतः पूर्व, पश्चात्तु तनुजैः कृतम् ॥ १९६ ॥ द्यते किं च तातोऽपि, मया भृशमबन्धुना । रथस्यैकरथाङ्गस्य, प्रन्यहो हि पदे पदे ॥ १९७ ॥ एका शृणु प्रतिज्ञां मे, बाहुमुन्धिप्य जल्पतः । सत्यवत्यास्तनूजस्य, राज्यं नान्यस्य कस्यचित् ।।१९८॥ अहं तु हन्तुमंतस्य, प्रत्यूहव्यूहमन्वहम् । चापभृत्तां करिष्यामि, सुतोऽस्मि यदि शान्तनोः ॥१९९।। अथैवाप्तं मया राज्यं, तुष्टाश्च मम देवताः । सत्यवत्या सधर्मिण्या, यत्तातः सुमना भवेत् ॥२००॥ उदात्तामिति गाङ्गेय-गिरमाकर्ण्य विस्मितैः । स्थिराणि खेचरैव्योंनि, विमानानि वितेनिरे ॥२०॥ विसयान फुल्लनयन-स्ततः सत्यवतीपिता । अत्यन्तलुब्धो विश्रब्धं, कुमार पुनरम्यधात् ॥२०२॥ साधु साधु कुमारेन्द्र, त्वमेव पितृवत्सलः । स्फीतं गुणगणकीतं, यदेवं राज्यमुज्झमि ॥ २०३ ।। राजपुत्रा हि राज्यार्थ-मकृत्यान्यपि कुर्वते ।।
१ चापभृजागरिष्यामि' इति प्रत्यन्तरद्वयपाठः ।
॥
७
॥