________________
।
*
य॑धाद पुत्र कलानिधौ ।।१७३ ॥ इतः कर्षति चेतो मे, नौतन्त्राधिपतेः सुता। संकटे पतितोऽमुष्मि-मृहधीः करवाणि किम् ? ॥ १७४ ॥ इत्थं विकल्पै पालः, काममाक्रान्तमानसः । मोघफाल इत्र द्वीपी, निबं पुरमुपाययौ ।। १७५ ॥
तदानीमागतो राज-सेवावसरलालसः । निर्वर्ण्य तातवैवर्ण्य, चिन्तां शान्तनवो व्यधात् ।। १७६ ॥ विनयातिक्रमः किं मे, किमानालकि केनचित् । किं वा सस्मार मे मातु-यन्मे श्यामाननः पिता ॥१७७॥ तातस्तावत्र पृष्टोऽपि, यथावत् कथयिष्यति । अमात्याचातसंधीचः, सर्व जानाम्यदः पुनः ॥१७८॥ ततः सर्वात्मना यलात् , करिष्ये पितुरीप्सितम् । इत्थं विमृश्य सोऽमात्य, पप्रच्छ विजने सुधीः ॥ १७९ ॥ तस्मानिःशेषमागम्य, सोऽयमनौपतेहम् । विहितस्वागतश्चैन-मबदनृपनन्दनः ।।१८।। महाभाग ! महाभाग्य-रर्थी शान्तनुराप्यते । इत्थं निराकृथा यत्तत् , सुष्ठु नानुष्ठितं त्वया ॥१८१॥ अवदनीपतिः प्रीतः, कुमार ! श्रृष्ण कारणम् । शान्तबोराणि नाम्मि, प्रार्थनाभङ्गाहेतवे ।।१८२॥ सोऽन्धकूपे क्षिपेत् पुत्री, ससापल्ये ददीत यः । वसन्त्याः शान्तनोगेंहे, सपत्नोऽस्यास्त्वमेव हि ॥ १८३ ॥ सपत्नीतोऽपि सुजातं, नितान्तमतिरिच्यते । कोशातक्याः फलेष्वेव, रसः परिसमाप्यते ॥ १८४॥ नररत्न ! सपत्नोऽसि, येषां तेषां कृतः सुखम् । जाग्रत्यसहने सिंह, सुखायन्ते कियन्मृगाः ॥ १८५ ॥ अप्रसम्मः प्रसन्नो वा, मवान् येषां दयेऽपि ते । आपदा पदमाद्याः स्युः, संपदामपरे पुन: ॥ १८६ ॥ कुमार ! मम दौहित्रो, यस्तु भावी कथंचन । दरे महोदयस्तस्य, समीपे विपदः पुनः ।। १८७ ।। त्वां समुत्सृज्य राज्यश्रीः, श्रीमन् ! किं वृणुते परम् ।। हित्वा वार्षि महासिन्धुः, किं तेल्लमुपसर्पति ! ॥ १८८ ॥ यः सर्व
पिततुल्यात् । २ कासारम् ।
**