________________
200
गच्छन्नच्छिन्नसंचार-मथ तस्मिन बनान्तरे । धमस्तोमं स वर्धिष्णु, विन्ध्यस्पर्द्धिनमैक्षत ॥४२४॥ मीमास्तदन्तरुत्तस्थुज्ालाः कालानलोपमाः। निर्गता रत्नगर्भाया, गर्भरत्नप्रभा इव ॥ ४२५ ॥ क्षणेन व्यानशे सर्व, वनं तदावपावकः । मानसं
शसान-रिव शोकहुताशनः ॥ ४२६ । जन्तूनां दह्यमानाना-माक्रन्दानुपकर्णयन् । मानुषी गिरमश्रौषी-नलो गच्छंस्तदन्तिकम् ॥ ४२७ ॥ ऐक्ष्वाक! नलभूपाल, जगत्यातकवान्धव! । दावाग्निदह्यमानाङ्गं, महात्मत्रक्ष रक्ष माम् ॥ ४२८ ॥ तस्था वाचोऽनुसारेण, नलः प्रहितलोचनः । वल्लीबलयमध्यस्थ, ददर्शक भुजङ्गमम् ॥ ४२९ ।। तं सोऽभ्यधाद्भुजङ्गेन्द्र, मम नामा-न्वयौ कथम् । जानामि त्वं कथं चेत्थं, पे मनुजभाषया ? ॥४३०॥ आह माहिर्मनुष्योऽह-मभूवं पूर्वजन्मनि । तत्संस्काराद्भवेऽप्यस्मिन् , मानुषी मे सरस्वती ।। ४३१ ॥ निधिमवधिज्ञान-मप्यस्ति मम भूपते ! । करस्वमिव पश्यामि, तेन विश्वं चराचरम् ॥४३२।। तत्रायस्व जमत्राण-सत्र ! धृमध्वजादितः । त्वां प्रत्युपकरिष्यामि, निरपेक्षमपि क्षणात् ॥४३३।। तेनेत्युक्ते भुजङ्गेन, नलः कारुण्यनीरधिः । अन्तलतावितानं स्व-मुत्तरीयमलम्बयत् ।। ४३४ ।। स भोगी वपुपा वृक्षं, वल्लीव तदवेष्टयत् । उदपानाद्वरत्राव-चकर्षाचं च नैपधिः ।। ४३५ ॥ भूतले तृणकाष्ठादि-रचिते तममुश्चत । यावदुर्वीपतिस्तावदश्यते स्म करेऽमुना ।। ४३६ ।। नलः क्षोणीतले पाणि-माच्छोय तमपातयत् । विषादाचाब्रवीत् सेयं, तब प्रत्युपकारिता ।। ४३७॥ यद्वा हन्यान्मृगारिस्तं, य एवोन्मीलयेदृशौ । य एव पाययेत भीर, वजात्यापि सदश्यते ॥ ४३८ ॥ इत्यादि निगदबेक, तदीयविषवैमात् । अधिज्यधनुराकार, कलयामासिवानलः ॥ ४३९ । तया कुजतयाऽत्यन्तं, राजा वैराग्य
१ पृथिव्याः । २ रज्जुवन ।
Des