________________
नलेन कतो
श्रीपाण्डव चरित्रम् ॥ सर्गः६॥
त्यागः॥
॥१०॥
"" ववलिं लिखित्वेति, चचाल वलिताननः । पश्यन् भैमी तथा मुप्तां, मन्दं मन्दं रुदन्नलः ।। ४०९ ॥ पुनाश्त्य वैदर्भी-मुखमालोक्य निर्भरम् । जगाद दैवदुष्कर्म-विद्धमर्मा महीपतिः ।। ४१० ॥ हा विवे ! विहितेयं चे-दीडग्विश्वातिशायिनी । तत्किमेतावतीं दीना-मवस्था लम्भिता त्वया १ ॥ ४११ ।। नान्योऽपि स्वयमारोप्य, छिनत्ति बदरीमपि । फलिताशेषसंकल्पां, किं पुनः कल्पवल्लरीम् ॥ ४१२ ॥ यदि वातावासि, सभोगदिदागतः ! नेलेन्दमपि निर्माय, कदर्थयसि राहुणा ।।४१३।। मम विज्ञापनां सर्वाः, शृण्वन्तु वनदेवताः । देवद्धिविधिवद्देव्या-मस्यां मा भूत निदयाः ॥४१४॥ तथा कुरुत केनापि, यथोपद्यते न हि । मार्ग च विन्दति प्रात-रसौ स्वजनवेश्मनः ।। ४१५॥ इत्युदीर्य मुहुर्जायो, पश्यमावृत्तकन्धरः । गच्छति स्म नलस्ताव-द्याबदागाददृश्यताम् ।। ४१६ ।। वन्यसचोद्भवः शके, स्यादस्याः कोऽप्युपद्रवः । तल्लताकृत एवैतां, रक्षाम्पेकाङ्गशायिनीम् ।। ४१७ ॥ प्रबोधसमये प्रात-गमिष्यामि यथारुचि । गच्छत्वेपाऽपि केनापि, मदावेदितयोः पयोः ॥ ४१८ ॥ इत्यालोच्य निवृत्याशु, नलस्तस्थौ लतान्तरे । तथाभूतां च तां दृष्ट्वा, पुनरन्तरचिन्तयत् ॥ ४१९ ।। अहो नलस्य शुद्धान्त-मसूर्यपश्यमीदृशम् । वासदेश्मनि शेते च, कीदृश्युच्चलशालिनी ॥ ४२०॥ हा दुरात्मसल ! क्षिप्रं, कथं यासि न भस्मसान् । इत्याद्यालोचयत्यस्मिन् , विरराम विभावरी ॥४२१॥ निलीनमिव तत्कालं, नलस्य मनसोऽन्तरे । सर्वतोऽपि दिगन्तेषु, तुच्छत्वमगमत् तमः ॥४२२॥ उदेति न रविर्याव-चावजागर्ति न प्रिया । साश्रुनेत्रो नलस्ताव-अगाम त्वरितक्रमम् ।। ४२३ ।।
१ 'नासो' प्रतिद्वय । २ मूढदेववत् ।
॥१०॥