________________
vo
तद्विधायानुरोघं त्व-मसिधेनुमलंकुरु । क्षुरिकायामिति स्वैरं, क्षितीशः पाणिमक्षिपत् ॥ ३९४ ॥ तामूचे च मया कोश:, समं राज्येन तत्यजे । वैसे केयं मदीयायाः, कोशेऽप्यत्यागवामना १ ॥ ३९५ ॥ मम पाणिग्रहे यद्वा त्वमपि त्यागशङ्किनी । मूढासि न हि भैमीव, भवत्यप्याि ॥ ३९६ ॥ इत्याकृष्य स्वतेजोभिस्तमः कल्पान्तशिल्पिभिः । हसन्तीमिव तां चक्रे, पटसंश्लेषिणीं नलः ||३९७|| पुनर्जगाद तां देवी - कान्तस्य मम वाससः । छेदाय क्षुरिके! देवि !, प्रसीदायं कृतोऽञ्जलिः ||३९८|| यद्वा स्त्रीजातिकारुण्य - विक्लवा न व्यवस्यति (सि) । कारुण्यं किं हि निस्त्रिंश-सुतायास्तव ? कथ्यताम् ||३९९ || इति चिच्छेद मेदस्वि-पतदश्रुकणाङ्कितम् । मन्युसंभारनिर्भिन्न चेतावेलाञ्चलं नलः ॥ ४०० | अब्रवीच दृशौ देव्याः, कामं निद्रे ! निमीलयेः । मा स्म भून्मम हिंखीरः, स्निग्धमस्या विलोकितम् ||४०१ || अस्मि त्यक्तस्त्वया देवि !, न व्यलीकशतैरपि । निर्व्यलीकामपि त्वां तु हा ! दुरात्मा त्यजाम्यहम् ॥ ४०२ ॥ मन्ये मे नेदमप्याग - स्त्वय्यागस्त्वं गमिष्यति । नाविर्भवति कौमुद्यां, कजलस्यापि कालिमा ||४०३|| इयमापृच्छपसे देवि !, प्रणाभोऽयमपश्चिमः । त्वामपि क्षेप्तुमिच्छामि, नात्मीयव्यसनार्णवे ।। ४०४ ॥ सतीव्रतपवित्रायाः कोऽपि नोपद्रवस्तव । परं पूजैव ते गेहे. पितुर्वा श्वशुरस्य वा ।। ४०५ ॥ इत्युक्त्वा तत्पदान्ते, लिखति स्म निजासृजा । अक्षराणि क्षर वाष्प - बिन्दुक्कियाननो नलः ॥ ४०६ ॥ वामतोऽयं वटेनाध्वा, विदर्भामुपतिष्ठते । दक्षिणेन पुनः स्मेरैः, किंशुकैः कोशलां पुरीम् ॥ ४०७ ॥ देवि! तत्र ब्रजेर्यत्र, कुत्रापि प्रतिभाति ते । अहं तु खलु न क्वापि, मुखं दर्शयितुं क्षमः ॥ ४०८ ॥
१ " मामक्यास्तव के तन्" इति प्रतिद्वयपाठः । २ (निगडः) बन्धनशृङ्खलेति यावत ।