________________
नलस्व
वनवासः॥
श्रीपाण्डवा समुचार्य ततः पञ्च-परमेष्ठिनमस्क्रियाम् । तौ स्म संविशतस्तस्मिन , मिथः, संसक्तदोलतौ ।। ३७९ ॥ परित्रम् ॥
अथाभाग्यभरै भैभ्याः, मापालोऽन्तरचिन्तयत् । गन्तव्याया भुवः कान्तो, बिन्दुरस्त्यर्णकः पुरः ॥ ३८० ।। सर्गः६॥ देवीसखश्च गन्तास्मि, तस्य पारीणतां कुतः १ । पथि स्वच्छन्दचारस्य, प्रत्यूहो हि खियो महान् ।। ३८१ ॥ तद्याम्येता परि
त्यज्य, बनेऽस्मिन् मुखशायिनीम् । प्रावर्गच्छेदियं वेश्म, पितुदा कूपरस्य वा ॥३८॥ इत्यालोचयतस्तस्य, निद्राति स्म विदर्भजा | "मार्गसंपातखिचानां, निद्रा वभ्यर्णवर्तिनी" ।।३८३।। ततः शनैः परीरम्भ-मुद्रा निर्भिध नैवधिः। ऋष्टु-1 कामो नि भैनी-सुनगंवलितं मुरम् ॥ ३८४ ॥ गाहवियम्भसंरम्भा-दतिस्त्रच्छन्दशायिनीम् । तामजागरयन्नचे, नीचकेनिषधापतिः॥ ३८५ ॥ (युग्मम् ) मुश्श मुश्च नलं मुग्धे, चण्डालं कुलपसिनम् । स्पर्शेनाप्यस्य पापस्थ, पातकरुपलिप्यसे ।। ३८६ ॥ सुप्नामेकाकिनी मेव, बने विश्वस्तमानसाम् । प्रेमामृतम्रवन्तीं य-स्त्वामपि त्यक्तुमिच्छति ॥ ३८७ ।। कल्पद्रुमभ्रमान्मुग्धे, श्रिताऽसि विषपादपम् । तुवामुहि निःशेष, फलं तस्यात्मकर्मणः ॥ ३८८ ॥ धिग्धातः ! कुर्वता मूढ !, वैदर्भानलसंगमम् । हंसीकाकोलयोः कोऽयं, त्वयाऽकारि ममागमः ? ।। ३८९॥ यदि वा मर्वदेवासि, त्वमनौचित्ययोगकृत् । अमेध्यदोहदश्चक्रे, केतक्या (क्याः) कथमन्यथा ? ॥३९॥ इत्याकृग्य भुजं भूयो, मन्दं मन्दं नलोऽवदत् । देवीक्रान्तमिदं वास-इछेनु बाहो ! प्रसीद मे ।। ३९१ ॥ यदा पूर्व स्वमेवास्या, व्यापृतोऽसि करग्रहे । जातस्त्वमेव सर्वाङ्ग सौरम्यप्रथमा- | तिथिः ॥ ३९२ ॥ तेन मन्येऽहमेतस्यां, दाक्षिण्यं दक्षिणस्य ते । सदा संधीचि किं नाम, नलेऽसि त्वमदक्षिणः ॥३९३॥
१ आलिङ्गनमुद्राम् । २ विष्ठायाः दोहदः । ५ सहचारिणि ।
॥१९॥