________________
196
तत्सतीत्वविकस्वराः ।। ३६३ || भीमात्मजानिमालक्ष्मी मित्रादाय नलोऽचलत् । गतेऽस्मिन् सर्वमप्यासी निर्लक्ष्मीकं कृतोऽन्यथा १ ।। ३६४ ॥ पुरीपरिसराराम - चरिमाद्यैर्बिनोदयन् । विदर्भदुहितुश्रक्षु-र्नलोऽगच्छत् पुरः पुरः ॥ ३६५ ॥ भैम्याः पुराऽभवत् प्रीति- रातपत्रैर्न तावती । पत्या घृतोत्तरीयायाः, सातपे पथि यावती ॥ ३६६ ॥ पार्थिवस्तां पथि श्रान्तां यत्र तत्रोपवेशिनीम् । निर्व्याजं बीजयामास, स्वेदिनीं सिचयाञ्चलैः || ३६७|| कापि श्रमेण विश्रान्तां, संत्राय चरणौ चिरम् । पार्थिवः प्रार्थयांचक्रे पुरस्ताद्गमनाय ताम् ॥ ३६८ ॥ तां क्वचिन्मार्गखेदेन तरुच्छायानिपादिनीम् । नलोऽब्जनीदलानीतं, पयः शीतमपाययत् ॥ ३६९ ॥ कचिच्च सचमालम्ब्य पादसंवाहनोद्यता । भूपालेन बलामी, स्मितपूर्वमवार्यत ॥ ३७० ॥ अतीयतुः फलैस्तैस्तै- स्तौ मध्याहं कृताहिकौ । सेव्यमानौ सरस्तीरे, शिशिरैरूर्मिमारुतैः ॥ ३७१ ।। अन्योऽन्यनिविडाऽऽश्लेष - चीतचङ्कमणकुमौ । तौ लतामण्डपे कापि, निन्यतुः पथि यामिनीम् || ३७२ ||
अन्येद्युरुन्मदोत्फाल-व्यलव्याकुलितोदराम् । एकच्छत्रद्रुमच्छाया-मीयतुस्तौ महावीम् || ३७३ || नामवस्थामिबोष्णांशु-स्तयोरीक्षितुमक्षमः । विधौ क्रोधादिवानाम्रो, जगामास्तनगान्तरम् ॥ ३७४ ॥ अधावन्नमितो दिग्भ्य - स्वतास्तिमिरवीश्चयः । वनान्तगहनध्वान्त बन्धुत्रहोत्सुका इव || ३७५ || कान्तारसरितं कांचि ह्रस्वा श्रताऽऽस्य - दोः क्रमौ । ततो भूपच भैमी च यथेच्छं पपतुः पयः ॥ ३७६ ॥ विश्रामाय लतावेश्म-क्रोडे कङ्केल्लिपल्लवैः । नलः शिलातले रम्बे, कापि तल्पमकल्पयत् || ३७७ || वृन्तैरपि वपुग्लानि-वैदर्भ्या मा स्म भूदिति । उसरीयपटप्रान्तं स व्यधत्तोत्तरच्छदम् ॥ ३७८ ॥
१ निभात्-मिषात् । चारिमा सौन्दर्यम् । ३ व्यालः सर्पः । ४ विस्तृताः ।
1