________________
194
ततस्तारयिता कः स्यान्मजतां मन्दमेधसाम् ? ।। ३३३ || प्रतिपक्ष इवाक्षोऽयं तवाद्य प्रातिलोमिकः । इयत्यपि गते तस्मादपाकुरु दुरोदरम् || ३३४ ॥ अभिषिञ्च स्वयं राज्ये, भ्रातरं कूपरं वरम् । प्रसय हृतराज्यस्तु, बाढमुत्प्रामयिष्यसे ॥ ३३५ ॥ गिरमित्यादिकामुचै रुच्यमानां नलस्तया । न विन्दति स्म गम्भीरवेदी निशितां भूणिम् ॥ ३३६ ॥ अथाप्तपुरुपै नैमीनिदेशाज्जगदे नलः । वृथैव पृथिवी किंतु, हार्यते कृच्छतोऽर्जिता ? ।। ३३७ ॥ किं न द्यूतं परित्यज्य, जीवयस्यनुजीविनः ? | शुष्के हि सरसि ग्रीष्मे कियमन्दन्ति दर्दुराः १ ।। ३३८ ।। इत्येषामप्यनादृत्य, वचचिक्रीड नैषधिः । " विपति भृशं पुंसां, बुद्धिः क्रुद्धे हि वेधसि " ॥ ३३९ ॥
नस्ततोऽवरोधेन, समं भैमीमहारयत् । तारकाभिः सह प्रातः, कौमुदीमित्र चन्द्रमाः || ३४० ॥ हारयामास भूपालः, शरीराभरणान्यपि । वसन्तस्य व्ययारम्भे, कुसुमानीव चम्पकः || ३४१ ।। जगर्ज जगतीनाथ - श्रीलामे कूबरोऽधिकम् दुर्धराः सरितामोघः प्राप्तौ सम्भोदसंपदः ॥ ३४२ ॥ राज्यभ्रंशे भ्रुवो भर्तुः प्रजाश्चक्रन्दुरुच्चकैः । कुलायभूरुहो मझे, परिणामिव पयः || ३४३ ।।
कूबरो नलमित्यूचे, मदीयां मुञ्च मेदिनीम् । पिता दत्ते स्म ते राज्यं, ममेदानीं तु देवनः ॥ ३४४ || गवं कमपि मा कार्षीर्न दूरे दोभृतां श्रियः । इत्युक्त्वाऽम्वरखण्डैक - मात्र श्रीरचलन्नलः ॥ ३४५ ॥ मया जिताऽसि मा यामी - मदन्व:_पुरमाश्रय | नलानुपायिनों भैमी मित्यवोचत कूवरः ॥ २४६ ॥ ततस्तमृचिरे पौराः किमेतां प्रतिषिध्यसि । मृत्युमामोत
? दुरी २ नाथ प्रतिद्वय० । नीडवृक्षस्य निवासवृक्षस्येति यावत ।