SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ श्री पाण्डवचरित्रम् ॥ सर्गः ६ ॥ ॥ ९७ ॥ 193 स्म दिनानि तौ ॥ ३१८ ॥ युग्मम् ॥ अथान्यदा नलं न्यस्य, राज्ये निषश्रभूपतिः । कूपरं यौवराज्ये च परित्रज्यामुपाददे || ३१९ ॥ तस्मित्राहि प्रजाः सर्वा - स्वरतिघनोदये । अध्यारोहन परां लक्ष्मीं ॥ २३ ॥ खूर्चीकृता प्रतापानौ, रिपुखीहारवल्लरीम् । स कामं धवली चक्रे, यशः प्रासादमात्मनः || ३२१ ॥ प्रतापमित्र कल्पाग्नि-संपन्नमसहिष्णवः । ममज्जुद्विपदुर्बीश- श्रियस्तस्पासित्रारिणि ।। ३२२ | स सैन्यैः साधयामास भरतार्धमधिद्युतिः । करैरुष्णांशुमालीव, गगनार्धमशेषतः ।। ३२३ || भरतार्धाधिराजस्य, राजानस्तस्य तेनिरे । संभूय भूरिसंभार - मभिषेकं हरेरिव ॥ ३२४ ॥ कूवरः क्रूरचेतास्तु तस्य राज्याभिलाषुकः । रन्ध्राण्यन्वेपयामास, मृगारेखि जम्बुकः || ३२५ ॥ नलस्तु सह तेनैत्र, बान्धवप्रीतिचन्धुरः । नित्यं दुरोदरक्रीडां तनोति विशदाशयः ॥ ३२६ ॥ अन्येद्युस्तु गंम-चर-वन्घ- मोक्षसुधीरपि । कूबरं देवनैर्देवा - जेतुं नालं नलोऽभवत् || ३२७ || नलस्य काङ्क्षितो नाक्षः पतति स्म कथंचन । मारयामास तच्छारीन्, भूयोभूयस्तु कूबरः || ३२८ || नगर-ग्राम-खेटादि, हारयन्नभवन्नलः । गलल्लक्ष्मीः क्रमात् पक्षे, शशीव विशंदेतरे ।। ३२९ ॥ विषसाद जनः सर्वः, कूबरस्तु मुदं ययौ । “ दुःखी ध्वान्ते हि लोकोऽय - मुल्कः पुनरुन्मदः " ॥ ३३० ॥ आकर्ण्य लोकहाकार - कोलाहलमुदित्वरम् । अभ्यधान्नलमभ्येत्य, समयं भीमनन्दिनी ॥ ३३१ ॥ स्वामिन्! कोऽयं विषर्यासः संप्रत्यभिनवस्तव ? | विनोदमात्र मे त्रैत- दुरोदरमुदीरितम् || ३३२ ।। त्वादृशा अपि चेदस्मिन् मजेयुर्व्यसनार्णवे । १ (गमचरावक्षद्यूतप्रभेदौ) गमे च चरे च बन्धे च मोक्षे च निपुणः । २ कृष्णे । निलस्य राज्याभिषेकः । कूबरेण सह भूतक्रीडा च ।। ॥ ९७ ॥
SR No.090445
Book TitlePandavcharitra Mahakavyam Part 1
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy