________________
192
जगाद स मुनिर्ज्ञानी, धर्मस्थेमकरीं गिरम् ॥ ३०३ ॥ न धर्मों नूतनः कोऽपि युवयोरुपदिश्यते । ययोर्भूतं मद्भावि-जन्मधर्मेकबन्धुरम् || ३०४ || चतुर्विंशतिमुद्दिश्य, दमयन्ती जिनेश्वरान्। तवश्चक्रे ददौ रत्न - तिलकांच पुग भवे ॥ ३०५ ॥ तेनास्याः शाश्वतं माल - स्थलालङ्करणं नवम् । अस्मिञ्जन्मनि मार्केण्ड विडम्बी तिलकोऽभवत् ॥ ३०६ ॥ जन्मान्तरे तथा सिक्तः, कुमार ! भवताऽप्यसौ । धर्मदुः फलितः शश्व-अज्ञे वैस्तैः फलैर्वथा ॥ ३०७ ॥ अधिगम्याऽऽर्हतं धर्मं - मागामिन्यपि जन्मनि । सर्वकल्याण कल्लोल - पारावारौ मविष्यथः ॥ ३०८ ॥ तामित्यमृतसधीचीं तौ निशम्य मुनेर्गिरम् । प्रतस्थाते रथारूदौ, प्रौढप्रहादमेदरौ ॥ ३०९ ॥
पुरीपरीसराऽऽराम- मुपेयुषि नृपे क्रमात् । नलः प्रमोदसंकुलः, प्रेयसीमित्यवोचत ।। ३१० || देवि ! पश्य निजश्रीभिजयन्तीममरावतीम् । तव श्वशुरसंतान-राजधानीमिमां पुरीम् ॥ ३११ ॥ इतः क्रीडातडागानि, केलिंधात्रीधरा इतः । इतो लीलावनश्रेणि-रितः प्रमददीर्घिकाः ।। ३१२ ।। इत्यादि तत्तदुन्मील -स्प्रमोदलहरीजुषः । अदर्शयन्मयादर्शो, विदर्भदुहितुर्नल: ॥ ३१३ ॥ ( युग्मम् ) वधूवरं पुरस्कृत्य, प्रारब्धविविधोत्सबैम् । विवेश निषेधः शक्र - संकाशः कोशलापुरीम् ।। ३१४ ॥ तस्यामुद्वीक्ष्य वैदर्भी, जिनवेश्मानि भूरिशः । पत्या नलेन मेने स्वं पुमर्थत्रयशालिनम् ।। ३१५ || समं नलस्य निग्रडं, क्रीडतः कान्तया तया । दिनैर्यामायितं कामं, क्षणदाभिः क्षणायितम् ।। ३१६ ॥ क्रीडाद्रिललितैर्जातु, जातु काननकेलिभिः । दोलालीलायितैर्जातु, जातु वारिविगाहनैः ॥ ३१७ || कुसुमात्रचयैर्जातु जातु मालाभिगुम्फनैः । उत्तंसरचनैर्जातु, नयतः
१ अमृतम्या | २ क्रीडापत्रता: । ३' एकप्रतिः ।