________________
श्रीषाण्डब चरित्रम् ||
सर्गः ६ ॥
॥ ९४ ॥
तैस्तपःसूतु- समाचारिणी । शनद्वारा मणिस्तम्भ - सहस्रसुभगा सभा || २२७|| सर्वसंदेहसंदोह - भिदुरं विदुरं ततः । आराकारयामास, भूपतिर्हस्तिनापुरात् ॥ २२८ ॥ आगत्य प्रणयग्रह्नः, प्रणम्य चरणाम्बुजम् । क्षितीशितुरुपाविशत्, प्राञ्जलिर्विदुरः पुरः ॥ २२९ ॥ सुन-सौबलयोः सर्व, कैतवाकूतपांसुरम् । ततः क्षोणिपतिस्तस्य, तमालोचमचीकथत् ॥ २३० ।। अथोचे विदुरस्तीव्र - विषादच्छिदुराशयः । युष्मन्मत्रोऽयमत्राणि, हहा ! मेऽन्तर्निकृन्तति ॥ २३१ ॥ बचो विद्यानद्यानां नान्यथा भवति कचित् । कुलारण्यैकदा वामि - रुत्थितोऽयं सुयोधनः ॥ २३२ ॥ किं न श्रुतं यथापूर्व, नल- कूबरयोरपि । अनर्थफल एवाय-मभूद् द्यूतविषद्रुमः ॥ ॥ २३३ ॥
तथा हि को सवस्ति, कोशास्तधनदैर्जनैः । अलकाविजयप्रौढ-कौशला कोशला पुरी || २३४ ॥ तस्यामासीद्यंशो|म्मोभिः, प्लाविताशेषभूतलः । कृतवैरिवधूहार-निषेधो निषधो नृपः ।। २३५ ।। तस्याभूत् तनयो वैरि-कुलकालानलो नलः । द्वितीयः खण्डिताराति-डम्बरः कूरः सुतः || २३६ || वेत्रिणाऽऽवेदितोऽन्येद्युरुपगम्य प्रणम्य च । दूतः कश्चिन्महीपालं, मीलिताञ्जलिस्त्रवीत् ॥ २३७॥ विदर्भेषु मुत्रः कर्ण - कुण्डलं कुण्डिनं पुरम् । देवास्ति देवदेशीय-स्वस्मिन् भीमरथो नृपः ||२३८|| तस्य निःसीमरूप श्री - दमयन्तीति विश्रुता । तनयाऽस्ति जगन्नेत्र - कुमुदाऽऽनन्दकौमुदी ॥ २३९ ॥ नेत्रपीयूपत्राप तां निर्माय नियतं विधिः । स एवाहमुतान्योऽस्मि, विस्मयादित्यचिन्तयत् || २४०|| हित्वा जलाशयान् हंसा:, कैलाससरसीमित्र | गुणाः स्वयं श्रयन्ति स्म, संश्रयस्पृहयैव ताम् || २४१ ॥ तनोति नित्यमद्यापि देवी वाचामधीश्वरी । अंशावलिच्छ
१ 'यशोम्भोधिप्ला' प्रतिद्वय० । २ जपमालाभिपान् !
धृतराष्ट्रस्व पुरो विदुरिण कथिता नलकूबर कथा ॥
॥ ९४ ॥