SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ 188 लात् तस्या, गुणौधगणनामिव ॥ २४२ ॥ शश्वन्मनसि कुर्वाणा, केवलं धर्ममाईतम् । तत्यजे तद्भयेनेव, पापत्रातभिरप्यसौ । २४३ || अनुरूप वरः कवि - दुहितुर्भे भवत्विति । स्वयंवरमुपाक्रंस्त, तत्कृते भीमभूपतिः ॥ २४४ ॥ सर्वाना मुशानन्यान् वैदर्भ भूपतिः । प्राहिणोदपरान् देव-दूतानाकूतकोविदान् ॥ २४५ ॥ अहं तु देवपादाना-मन्तिके मेदिनीभृता । ग्रहितः परमात्मेव, स्वस्वरूपे मुमुक्षुणा || २४६ || तन्निजाभ्यां कुमाराभ्यां सहाभ्येत्य स्वयंवरम् । भूमीन्दो ! भीमभूपालमानन्दयितुमर्हसि ॥ २४७ ॥ मेदिनीशोऽथ तद्वाच- भोमिति प्रतिपद्य ताम् । आदिदेश विदर्भेषु प्रस्थानाय वरूथिनीम् ॥ २४८ || जाजनितत्रासं निग्रहीतुमिवान्तकम् । प्रत्यपाचीं दिशं सैन्यैः प्रतस्थेऽथ प्रजापतिः || २४९ ।। क्रमात् प्रत्युद्गतः प्रीत्या विदर्भपृथिवोजा । विवेश क्षोणिपखण्ड मण्डनं कुण्डिनं नृपः ॥ २५० ॥ नलं त्रिलोक्य कंदर्प-कल्पदुनवकन्दलम् । दर्भीयति स्म वैदर्भ - जनोऽन्यानवनीभुजः ॥ २५१ ॥ कुण्डिनेशनिदेशेन, नेदीयः केलिकानने । निवामानग्रहीत् प्रीत्या महीपतिपताकिनी ॥ २५२ ॥ यथौचित्यधृताकल्या स्तेऽथ कल्पद्रुमा इव । मञ्चानुचैरलंचक्रुः क्षोणिशकाः स्वयंवरे ।। २५३ ।। कोशलापतिरप्येकं, माणिक्यमयमद्भुतम् । कुमाराभ्यां समारोह-न्मञ्चमुचूलशालिनम् ॥२५४॥ क्षत्रियाणामगालक्ष्मी-नक्षत्राणामित्र क्षणात् । विश्वभास्वत्युपारूढे, मञ्चपूर्वाचलं नले ॥ २५५ ॥ नवपर्युत्रे दूर्य-मौक्तिकप्रायभूषणा । मधुत्रतकुलाकीर्ण - पुष्पास्तीर्णेव माधवी ॥ २५६ ॥ हर्षोत्फुल्लचलबेटी- कुतालोकध्वनिस्ततः । लक्ष्मीर्मूर्तेन वैदर्भी, विवेशान्तः स्वयंवरम् ॥ २५७ ॥ ( युग्मम् ) इमां रति शची- लक्ष्मी-पार्वतीरूपजि१ 'प्रजामञ्जरितत्रास' प्रतित्रयपाठः, तत्र प्रजायाः मारितः — विकसितः त्रासः यस्मात्तम् इत्यर्थः । २ वृणीयनि ।
SR No.090445
Book TitlePandavcharitra Mahakavyam Part 1
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy