________________
186
यानपि भूपालः, पुत्रंवात्सल्यपिच्छिलः । नूनं जातस्तनूजानां यच्छिनत्ति न मत्सरम् || २१३ ।। इति विश्वेऽपि किं विधे, परीवाद ददासि मे । तदेतस्मादपस्मारा - द्विनिवर्तितुमर्हसि ॥ २१४ ॥ ( युग्मम् ) सर्वैरप्यात्मनो मा गाः, सहायैस्त्वमहंताम् । नयेयुः पाण्डवेया हि वीरलक्षानपि क्षयम् ॥ २१५ ॥
इति भाषिणि मन्दी, जगाद शकुनिः शनैः । एकसौपयिकं वेद्मि, स्वीकारे पाण्डवश्रियः || २१६ ।। पतन्ति पत्रिणो यस्मि भने कस्यापि संगरे । अकीर्तिश्च न विस्फूर्ति मियर्ति जगति कचित् ॥ २१७ ॥ द्यूतक्रीडामहं वेधि, न पुनस्तपसः सुतः । तया हरामि तल्लक्ष्मी मनुजानाति चेद्भवान् ॥ २१८|| धार्तराष्ट्रोऽब्रवीत् तात], त्वमनुज्ञातुमर्हसि । आविष्कृतसुखोपाया-मिमां मातुलभारतीम् ॥ २१९ ॥ ऊचे नृपतिराहूय, बिदुरं गजसाह्वयात् । तस्यालोचेन निवेष्ये, स्थितो यस्यास्मि शासने ।। २२० ।। खिन्नः सुयोधनोऽप्याह, स्वं वेदालोचविष्यसि । न दास्यति मतं तेऽसौ ततो मृत्युर्मम ध्रुवम् ॥ २२९ ॥ मृते च मयि राजेन्द्र !, विदुरेण सुखी भव । उभावपि समेतौ च भुञ्जीयाथां महीमिमाम् ॥ २२२ ॥ उनमय्य मुखं स्नेहात् पाणिना शिरसि स्पृशन् । अथ रुष्टमभाषिष्ट, धृतराष्ट्रस्तद्भम् ।। २२३ || लक्ष्मीस्ते हास्तिकप्राज्या, स्वाराज्यस्यापि जित्वरी । धर्मात्मजन्मनो लक्ष्म्याः, किंचनापि न हीयते ॥ २२४ ॥ अधाद्भुता सभा ताह- इसम नास्तीति खिद्यसे । मा विद्यस्व तथा कुर्वे, यथा स्याः पूर्णवाञ्छितः ॥ २२५ ॥
तनूजं सान्त्वयित्वेति धृतराष्ट्रोऽतिशायिनीम् । सभां निर्मातुमादिवत्, तत्क्षणं स्थपतीश्वरान् ||२२६ || निर्ममे १ पुत्रवात्सल्येन पिच्छिलः - अम्लकांजी सदृशः मूढ इति यावत् । २ गर्विष्ठताम् । ३ 'तं' प्रतिद्वयः ।