________________
1
ज्झलायितां दृष्ट्वा, तपस्तनयसंपदम् ॥ १८३ ॥ नदी मोदयते ताव - धावन्नालोक्यतेऽर्णवः । तावदालोककृद्दीपो, यावन्नोदेति मानुमान् ॥ १८४ ॥ किंश्रियो यासु नोत्कर्ष - तारतम्यस्य विभ्रमः । किंशूरः समरे यस्मै तिष्ठतेऽन्योऽपि दोर्मदात् तर चित्ररूपाऽपि ने संप, सर्वमनोरमा । चण्डैः पाण्डुसुतौ त्य- धूमैयमलिवाना || १८६ ॥ श्रीयेऽहमसिते पक्षे, यामिनीकामिनीशवत् । विरोधिनस्तु वर्धन्ते तमस्तोमा इवान्वहम् ॥ १८७ || हेमन्तहिमसंभारे, स्फारीभवति वैरिणि । भाति मेsaऽपि निलओ, निस्तेजाः स्वं प्रकाशयन् ॥ १८८ ॥ स्तुमो जलघिमेबैंक-मशेषितजलाशयम् । वमत्यपि रिपौ ग्रीष्मे, यस्याम्युनतिरीदृशी ।। १८९ ।। नानारत्नप्रभाजाल - दत्तसंध्याभ्रविभ्रमाम् । संसदं तां तपः सूनो वसवोऽप्यभिलाचुकः || १९० || ध्यायन्ति हृदये नित्वं विस्मृताशेषदेवताः । परब्रह्मेव भूपाला - स्तस्याज्ञामेव केवलम् ॥ १९१ ॥ नमन्नृपतिको दीर- मणीनामपि दुर्बराः । सहन्ते न महस्तस्य पादाम्भोजरजःकणाः ।। १९२ || हर्म्याङ्गणे नृपास्तस्य, मण्डलीबन्धशालिनः । प्रेक्षाक्षणं प्रतीक्षन्ते, प्रस्तुतान्योऽन्यसंकथाः १९३ ॥ भूपालोपायनायातै - गजैस्तन्मन्दिराजिरम् । श्यामलीक्रियते दान-निर्जितैरिव नीरदैः ॥१९४॥ तत्तुरङ्गखुरोत्खातैः पांशुभिस्तलिनाऽवनिः । बभूव भूभृतोऽप्यास - प्रत्युत्राः शृङ्गसङ्गिभिः ॥ १९५ ॥ तद्वेश्मन्युषदारत्न कूटकान्तितिरोहितः । लक्ष्यतेऽभ्युदितोऽप्यर्कः, समाकमलिनीस्मितैः ॥ १९६ ॥ तदेतत्तात ! निःशेषं, पश्यतस्तस्य मन्दिरे । द्विधेव हृदयं मेऽभू-द्विदलत्संविबन्धनम् ।। १९७ ॥
१ ' शूरसमरे ' प्रतिद्वयपाठो न साधुः । २ चन्द्रवन् । ३ ' जलाशये ' इत्येकप्रतिपाठोऽपि साधुः । ४ ' दैवते' इत्येकप्रतिपाठोऽपि साधुः । ५ कृश्ण ।