________________
180
ड्राभिरावृतशङ्कया | व्यावृचं हसतः स्मैनं, दत्ततालं मिथो यमौ ॥ १२४ ॥ इत्याद्यैः पाण्डवेयानामुपहासैर्मुहुर्मुहुः । कौरवाधिपतेरन्त-रुखजागार मत्सरः ।। १२५ ।।
सत्कस्य प्रणयार्द्रेण प्रेषितः पाण्डुसूनुना । इन्द्रप्रस्थं प्रतस्थेऽथ, सोऽभिमानी समातुलः ।। १२६ ।। स दीनवदनामोजः, शून्यात्मा निश्वसन् मुहुः । यदा किंचिद्ददौ कामं, जल्प्यमानोऽपि नोत्तरम् || १२७ ।। तदा सविधमभ्येत्य, मातुलः सौबलो बलात् । जगाद पथि गच्छन्तं, करे वृत्वा सुयोधनम् ॥ १२८ ॥ किमेतत् ते मुखं धत्ते, प्रातः श्रीतरुचो रुचम् १ | इति जल्पन्तमस्वल्पं, गान्धारेयस्तमभ्यधात् ।। १२९ ॥ जीवगति किं नाम, वर्तते मम मातुलः १ । एवमत्यन्तमृध्यन्ति, पश्यतो यस्य शत्रवः ॥ १३० ॥ सहसो बधिज्योति-निर्मितामरका का । सुधर्मामप्यधः कृत्य, जृम्भते विसा समा ॥ १३१ ॥ दिगन्तसंपदः संप्रत्यहं पूर्विकया ऽखिलाः । धर्मनन्दनमायान्ति द्वीपवत्य इवार्णवम् ।। १३२ । आदाय सत्करेग्रीष्म- भास्वानप व श्रियः । सांप्रतं परितो वर्षन्, हर्षयत्यखिलामिलाम् ॥ १३३ ॥ कुबेरीकृतनिःशेष-वनीपककुलाः श्रियः । तस्य न्यक्कुर्वते गर्व, गीर्वाणेन्द्रश्रियामपि ॥ १३४ ॥ विहाय हेमकोटीरं, मूर्ध्नि स्रग्दामवासिते । उत्तंसीकुर्वते तस्य शासनं मेदिनीभृतः || १३५ || ध्वजारोपोत्सवे वाव-स्वयाऽप्यालोकितं तथा । यथाऽस्य प्रश्रयानी, राजकैः किङ्करायितम् ॥ १३६ ॥ तथाऽस्य सर्वथा जज्ञे, काश्यपी वशवर्तिनी । करैः पतद्भिरस्थानेऽप्यसौ नोद्विजते यथा ॥ १३७ ॥ एतदुत्पश्यतः सर्व
१ तस्याये स्फाटिक मित्ति-मच्छाम नवगच्छतः । गच्छतः स्खलिते मौलौ ते पुनर्जहसुर्जनाः ।। २६ ।। " इति लोक एकस्थां प्रतावधिको दृश्यते । २ " जीवजगः मातुल ! " इति प्रतिद्वयपाठोऽपि साधुः । (३ वनीपको याचकः । )
*4