________________
ון
धर्मकर्मणि । व्यथन्ते तद्दिनान्यन्तः, प्राच्यान्यप्यफलानि माम् || १४४ ॥ तन्मेऽधुना जिनस्यैव, वासना पर्युपासने । पुत्रं त्वादाय राजेन्द्र है, ब्रज शाधि वसुंधराम् || १४५ ॥ इत्युदीर्यं प्रजानाथं. सा तनूजमवोचत । वल्म ! गच्छ पितुः स्वस्य, समर्थय मनोरथान् ॥ १४६ ॥ कस्यास्ति जनकः ?, कस्यास्ति त्वादृशः सुतः ? । तदस्तु युवयोर्योगो, बुधचन्द्रमसोरिव ॥ १४७ ॥ ततो जगाद गाङ्गेय- स्त्यक्तुं स्वामच नोत्सहे । त्वं मे पिता च माता न दृष्टपूस्मि नापरम् ॥ १४८॥ तत्रोपचर्याशून्यं मे, मा स्म भूकमप्यहः । इत्युक्त्वा व्यक्तमुक्ताश्रुः सोऽपतन्मात्पादयोः ॥ १४९ ॥ अथोत्थाप्य श्रमृज्याश्रु जनन्या सोऽन्वनीयत । बलिः क्रियेऽहं वैत्सस्य, कातर्यमिदमुत्सृज || १५०॥ पुत्र । त्वमसहायस्य, सहायः स्वपितुर्भव | सूनु जनयितुश्चिन्ता - भारहारी हि ॥ ई ॥ बन्सल कलस्तावत तथा ते प्रथयिष्यति । यथा न त्वामहस्थाया, मम वत्स ! स्मरिष्यसि ।। १५२ ।। इत्यादियुक्तिभिर्व्यक्तं बोधितो बुद्धिमानपि । अम्बायाः स विलम्बेन, वचनं प्रत्यपद्यत ।। १५३ ।। गङ्गामापृच्छच गाङ्गेय-मादाय दयितः क्षितेः । उत्तोरणपताकाङ्क-गोपुरं रमायौ ॥ १५४ ॥
नृपोऽथ नवे तस्मै, यौवराज्यपदं ददौ । योग्यं सुतं वा शिष्यं वा, नयन्ति गुखः श्रियम् ।। १५५ ।। एकातपत्रां सोऽप्युव, कुर्वन्नहितनिग्रहात् । विनीतात्मा तनोति स्म, प्रसादं सदृशं पितुः || १५६ ।। विनीततन योत्खात - चिन्ताशल्यश्विरं नृपः | स्वच्छन्दोल्लसदानन्द, विजहार महीतले ।। १५७ ।।
१ ' ते वत्स ! ' इति प्रत्यन्तरत्रयपाठः २ ' प्रसादसदृशं ' इति प्रत्यन्तरत्रयपाठो न सम्यक् प्रतिभाति, डर्बीविशेषणे तु घटतेऽपि कथचिन । ३ क्रियाविशेषणमेतत् ।