________________
श्री पाण्डवचरित्रम् ॥
सर्गः १ ॥
॥ ५ ॥
तदोपेतः समं मया ॥ १२७॥ अनुलैर्मातुलानीनामङ्कपर्यङ्कखेलनैः । पञ्चातिक्रामयन् वर्षा- व्ययमेकाहलीलया ॥ १२८ ॥ विद्याधरकुमाराणां मध्ये सवयसां स्थितः । तिरश्वकार रूपाणि, तेजांसी तवात्मजः ॥ १२९ ॥ युग्मम् ।। ततः पवनवेगेन, मातुले नायमादरात् । अध्यापयितुमारेभे, विद्यां विद्यान्तरश्वना ॥ १३० ॥ पपाठाल्पेन कालेन, विनयात्तनयस्तव । वर्धिष्णुप्रतिभ वार्धि - मगस्तिरिय वाङ्मयम् ॥ १३१ ॥ अध्यगीष्ट धनुर्वेद-मनिर्वेद्रमसौ तथा । गुरुः पवनवगोऽपि यथाऽस्यन्तं विनिष्मिये ।। १३२ ।। नीतस्तेन ततः सर्व विद्यापारीणतामयम् । तृणवगणयामास, विद्याधरपतीनपि ॥१३३॥ मत्पितुः सदने हास्यात्, सुलभं वोsवहेलनम् । ततः समस्तैस्तैः सार्धं पुत्रस्ते कलहायते ॥ १३४ ॥ ज्ञात्युपालम्भतो भीता, न्वत्पाणिग्रहमाक्षिणि । प्रासादे निवसाम्यस्मि - नाचरन्ती जिनार्चनम् १३ चारण-मुखामं निशाम्यतः। बभूवास्य दयाधमः सुतरां हृदयंगमः ॥ १३६ ॥ ततः कल्लोलितश्रद्धा-निष्पतद्भाष्पशीकरः । व्यधान्निरपराधानां निषेधं प्राणिनां बधे ॥ १३७ ॥ ततः कारुण्यनिष्णेन, योजनानि चतुर्दश । वनेऽस्मिन् परितोऽनेन सुस्वरक्षा प्रवर्तिता ।। १३८ || नामुनाऽप्यध्वना व्याधः कोऽपि संचरते भिया । अस्मिन् हिनस्ति हिंस्रोऽपि न विरोधी विरोधिनम् || १३९|| कान्तारेऽत्र कृतान्तोऽपि श्रापदानामनापदाम् ! त्वत्पुत्रभीतो नैतेषां प्रभवत्यपमृत्यवे ॥ १४० ॥ प्राणसत्रं स्वपुत्रस्य सर्वसत्रशिरोमणिम् । आर्यपुत्र ! परित्रातुं सर्वथा तचमर्हसि ।। १४१ ॥ पत्नीमुवाच रोमाञ्च-मतनुं शान्तनुर्वहन् । सर्वाऽप्यतः परं त्यक्ता, वद्गिरा मृगया मया ॥ १४२ ॥ तदेहि सह पुत्रेण, सच्चरित्रेण संग्रति । उदग्रा जाग्रतु व्यक्तं पुनमें भाग्यसंपदः ॥ १४३ ॥ साऽभ्यधादधुना लीनं, मनो मे
6
१ मालनीनाम् । २ वाङ्मयीम् ' प्रत्यन्तरपाठः । ३ निर्गच्छद्भुविन्दुः । ४ रोमाञ्चकवचं ' इति प्रत्य० ।
गङ्गाकथि
तो गांङ्गेय
वृत्तान्तः ॥
॥ ५ ॥