________________
मेर महीनाथ-
सामवासिनः ।। ११९॥ अथाह जननी वत्स :, पिताऽसौ तब शान्तनुः। मृगव्यव्यसनादस्मा-त्र व्यरंसीत् कथंचन ॥ ११३ ॥जातमात्रं तदादाय, स्वामुपामा गृह पितः। पितेव शरणं स्त्रीणा-मविधेये हि भर्तरि ॥११४॥ प्रत्युवाच स तां मात-यद्यप्येवं तथापि मे । तातोऽपि नाधुना सातः, कर्मठो यः कुकर्मसु ॥ ११५ ।। असौ प्रत्युत मे शत्रुः, पालितेम्यो मयाऽनिशम् । बाल्यात् कान्तारजन्तुम्यो, यदमीभ्योऽपि द्रुह्यति ॥११६॥ पिता बाऽस्तु परो वाऽस्तु, नासु मुश्चे कथंचन । प्राणिनो मे प्रियानेता-निपुणश्चेजिघांसति ॥ ११७ ।। ततो गङ्गा समागत्य, वसुधाधिपमभ्यधात् । आर्यपुत्र ! स्वपुत्रेण, कोऽयं ते मीषणो रणः ॥११८॥ एतत्तस्या वचः श्रुत्वा, स्फारिताक्षः क्षमापतिः। इयं गड़ा कथमयं, गाङ्गेयश्चेत्यतर्कयत् ॥ ११९ ॥ समुद्धषितरोमाञ्चो, रथादुत्तीर्य पार्थिवः । प्रौदं प्रमोदमारूद-स्त्वरितं सुतमभ्यगात् ॥ १२०॥ अपरोऽप्यरोष्याशु, चापं पर्यश्रुलोचनः । आगत्य भूमिलुठनैः, पादपोरपतत्पितुः ॥१२१॥ पिताऽप्युत्थाप्य सर्वाङ्ग-मालिङ्गबङ्गजं निजम् । तत्सुखं प्राप पीयूष-सेकतोऽप्यतिरेकि यत् ॥ १२२ ।। ।। परं परस्परस्नेह, वीक्ष्य प्रत्यक्षतस्तयोः । यामुवाह मुदं तां तु, सैव जानाति जावी ॥ १२३॥ ___अथ पुण्यपरीपाक-संपनाङ्गजसंगमः । आलिङ्गनयनैः प्रीत्या, प्रियां प्रोवाच पार्थिवः॥ १२४ ॥ कस्तूरीस्तवकश्यामनवश्मश्रुरसौ मया । प्रिये! सुतोऽपि शौण्डीर्य-विस्मयानोपलक्षितः ॥१२५।। कथं कान्तारवास्तव्यः, सुतो मे समजायत ।। कथं वा यौवनावस्था-मिमामानायितस्त्वया ॥१२६॥ गङ्गा जगाद राजेन्द्र :, कथयामि निशम्यताम् । पुरे मातामहस्यायं, १ 'बलात्' इति प्रत्यन्तरत्रयपाठः । 'वाऽस्त्वपरों' इति प्रत्यन्तरत्रयपाठः।३ रोमाऽथ' इति प्रत्यन्तरत्रयपाठः। ४ संहत्य । ५ गा।