________________
अर्जुनसं
श्रीपाण्डव- चरित्रम् ॥ सर्गः५॥
मत्या पुषिष्ठिरराज्याभिषेको पक्रमः॥
॥८४॥
क्रय इव प्रीतिः, प्रकृतीनामदीयत ॥ ४७० ॥ गाङ्गेय-धृतराष्ट्राया, ज्यायांसोऽपि तपासुते । राज्यधुर्योऽयमेवेति, सर्वे | ममस मन्वते ।। ४७ :: अस्तु राजन्धती भूमि-स्तदेनेन चिरादियम् । मर्वस्याप्यस्य लोकस्य, पूर्यन्तां च मनोरथाः ॥ ४७२ ।। वस्स ! प्रतीक्षितोऽसि त्व-मेतावन्ति दिनानि तु | मधोरभ्युदयः श्रेयान् , विना न मलयानिलम् ॥ ४७३ ॥
उभाकीदमाकर्ण्य, वचः प्रीत्या महीपतेः । सव्यमाची नतो वाच-मुवाच विनयान्विताम् ।। ४७१ ॥ इदं तातम्य को नाम, वचो न बहु मन्यते । "कोविदः को हि कुनि, मीमांसामागमोतिषु?" ॥ ४७५ ।। प्रियंकरा च नो कस्य, श्रीसंक्रान्तिस्तपःसुते ? | " श्रयन्तीह सुधारश्मि, न मुदे कस्य कौमुदी ? " ॥४७॥ गिरमेनां च तातस्य, यः प्रमाणयिता न हि । मामकास्तस्य मूनिं, सहिष्यन्ते न मायकाः ।।४७७॥ इत्यात्मजन्मनो वाचा, प्रीनचेताः क्षितीश्वरः । धर्मात्मजाभिषेकाय, तत्कालमुपचक्रमे ॥ ४७८ ।।।
कुष्णादीनवनीपालान् , तैराहाययनृपः । दुरात् पुष्पंधयान पुष्प-सौरभरिव भूरुहः ॥ ४७९ ॥ निवासाः क्ष्माभुजा रेजुः, परितो हस्तिनापुरम् । सर्वतोऽपि तुषारांशु-मालिनं तारणा (का) इव ॥४८०॥ तूर्यप्रणादमेदस्त्रि-नारीमङ्गलगीतिभिः । शब्दाद्वैतमयस्तस्मिन् , पुरे प्रावर्ततोत्सवः ।। ४८१ ॥ व्योमलक्ष्मीविनीर्मीय-माणनिर्जिनश्रियः । वैजयन्त्यो जनस्तस्मिन् , समुचिक्षिपिरे पुरे ।। ४८२ ॥ हर्षाकुलचलच्चेटी-कुचसंघट्टचूर्णितः । राजवेश्मभुयो हार-श्चक्रिरे बद्धसैकताः ॥ ४८३ ॥ तोरणानि जनैः स्वस्व-मन्दिरेषु चिकीभिः । निष्पत्राश्चक्रिरे केलि-काननाम्रवणधियः ।। ४८४॥ प्रतिमन्दिरमुत्क्षिप्त-कदलीस्त
१ विचारणाम् । २ भ्रमरान् । ३ चन्द्रम् ।
-