________________
.
स्वयं राज्ये तपःसुतम् । अभिषेक्तुमनाः काम-मुशिस्त्वामपेक्षते ॥ ३९३ ॥ प्रतिप्रातरपश्यन्ती, कुन्ती त्वदनं पुनः । वहत्यजसमझाम्बु-जम्बालजटिले दृशौ ।। ३९४ ॥ इत्युपश्रुत्य तद्वाच-माचान्तहृदयो मुदा । पित्रोः स्नेहेन बीभसु-नितरामौत्सुकायत ॥ ३९५ ॥ ततस्तमाह बीभत्सु-राद्यं शत्रुजये जिनम् । नमस्कृत्याइमायात, एव त्वं तु पुरो बज ॥ ३९६ ।। इति संप्रेष्य तं शश्रृं-जयं प्रति धनंजयः । साधं भूखेचरेन्द्राभ्यां, चलति स्म विहायसा ।। ३९७ ॥ तस्मिन् परमया भत्त्या, वन्दित्वाऽऽदिजिनेश्वरम् द्वारकामगमत कृष्ण-दर्शनोत्कण्ठितोऽर्जुनः॥३९८॥ प्रत्युजगामगोविन्द स्तमायान्तं नमोऽध्वना । नीलकण्ठ इवोत्कण्ठा-तरलो नवनीरदम् ॥ ३९९ ।। तौ मिथः परिरेभाते, प्रत्यक्प्रागनिलाविव । शरीरद्वयमुत्सृज्य, विभ्रतावेकनामित्र ।। ४०० ।। पीयमानं तरत्तारैः, पौरनारी विलोचनैः । निन्ये हरिनिज धाम, सपरीवारमर्जुनम् ॥ ४०१॥ फाल्गुनाय मुराराते-रुपचारं चिकीर्पतः । स्वाराज्यमपि निर्जेतु-माचकाइ मनस्तदा ॥ ४०२॥ कृष्णोऽस्य स्वागतीचक्रे, सुभद्रा भगिनी निजाम् । अभीष्टो गतिथिः काम, गृहसर्वस्वमर्हति ॥ ४०३ ॥ यादवीमङ्गलोद्गीति-नवपीयूषतोयदः । अभून्मुदितगीर्वाण-स्तत्पाणिग्रहणोत्सवः ॥४०४ ।। पाणिमोक्षविधौ जिष्णो-र्यधभूयोऽप्यदित्सत । अल्पीय इति कंसारि-स्तेन तेनाप्यलजत ॥ ४०५॥ पित्रोरुत्कण्ठितोऽप्युच्चै-र्जिष्णुः कृष्णानुरोधतः । उत्सवैकमयान् कश्चित् तत्रातीयाय वासरान् ॥ ४०६ ॥
कृष्णमन्येधुरापृच्छय, समं पन्या सुभद्रया। हस्तिनापुरसोत्कण्ठः, प्रतस्थे कपिकेतनः ॥ ४०७ ॥ ततः स १ जम्बाल:-पः सेवालो वा । २ मयूरः ।