________________
मीपाण्डव चरित्रम् ॥ सर्वः ५॥ ॥८ ॥
केसरेण कपितोऽर्जुनस्य पराक्रमः
159 कान्यपनेष्यसि ? ॥ ३४६ ।। इत्युदीरयति स्वैर, तस्मिन् बक्ति स्म पाण्डवः । रे ! न शौण्डीरिमा वाचि, भुजम्वेवावतिष्ठते ॥ ३४७ ॥ किं तु दुर्दान्तवृत्तीना, शासनाय भवादृशाम् । उद्यता अपि नो पूर्व, प्रहरन्ति कुरूदहाः॥३४८॥ ततः स्थेमान-| मानीय, मानसं साध्वसाकुलम् । निपातयतु निखिंभ, नृत्रंस : प्रथमं भवान् ॥३४९|| इत्याक्षेपगिरा सोऽपि, दोजागरपौरुषः। अपकोशमर्सि कृत्वा, प्रजहार कपिध्वजम् ॥ ३५०|| तेन गादप्रहारेण, दक्षिणेर्मा धनंजयः । तमूर्जित भुजं दृष्ट्वा, कष्टजय्य- ममन्यत ॥ ३५१ ॥ ततः कपिध्वजो धौत-धारेण तरवारिणा । बाह्रोः सर्वाभिमारेण, तं हन्तुमुदतिष्ठत ॥३५२|| निहतः स तथा शत्रुः, स्कन्धकोटौ किरीटिना । यथा पपात मृच्छालः, शुष्कतालुर्भुवस्तले ॥३५३|| चेलान्ततालवृन्तेन, तमुपानीय चेतम. सुधीः सत्गम-समाधमंजयः३५४ा हो ! विद्याधराधीश!, दमालम्य दोर्चलम् । पुनः प्रहर निःशवं, मा कलङ्कय पौरुषम् ॥३५५ ॥ इत्यवष्टम्भसंरम्भ, विभाव्य भयभारः । विहाय सहसा खड्ग-मानमत् खेचरोर्जुनम् ।।३५६।। नीचैरूचे च तं वीर !, व्यलीक क्षम्यतामिदम् । भूर्भुवःस्वस्त्रयीलोक-प्राणशौण्डा हि पाण्डवाः ।। ३५७ ।। शौण्डीरचूडारत्नेन, परखीप्रियवन्धुना । सर्वथैव त्वया नाथ :, विजिग्येऽहमनीदृशः ॥ ३५८ ॥ चारणेभ्यो भुजस्तम्भ-स्फूर्तयस्ते मुहुः श्रुताः । खलीकृतोऽसि विश्वेश, साक्षात्कर्तुं मयाऽद्य ताः ।।३५९।। परं बद्धरणारम्भ-संरम्भे हरिणद्विपि । न द्विपेन्द्रोऽप्यलं स्थातुं, का कथा हरिणस्य तु ॥३६०॥ धर्म-न्याय-सदाचार-परोपकृतयस्तव । सहायास्तत्वया वीर!, जगजितमहं तु कः ?॥३६१॥ किं चोपकृतमप्यस्या-मिदं मावि तैवाफलम् । यदि पाइने देव!, संप्रत्येव न धावसि ।।३६२ ।। मुक्ताऽस्ति मार्गकान्तारे,
१ पराक्रमः । २ भयाकुलम् । (३ दक्षिणे ईमें वणमस्येति ।) ४ अपराधः । ५ 'तया' 'तमा' इति प्रत्यन्तरपाठौ न सम्यक् ।
८०॥