________________
138
न्तानपसिन । मैतां पतित्रतां वास-पवनैरपवित्रय || ३३१ || पतिव्रतामयं ज्योति - रिमामपहरिष्यतः । वपुस्तव क्षणादेव, किं बभूव न भस्मसात् १ ||३३२॥ बन्धुः पतिर्वा यद्यस्या. गणितौ नावलेपतः । त्वयाऽन्तचिन्तिताः किं न, फाल्गुनस्यापि बाहवः १ ॥ ३३३ ॥ सतीचिन्तामणेरस्यास्तनुसंस्पर्शपाप्मनः । प्रायश्चित्तं विधाता ते, क्षणात् कौक्षेयको मम ।। ३३४ ।।
तदा प्रमोद कल्लोले - राकुलीकृतमानसा । इत्यन्तश्चिन्तयामास, फुल्लचक्षुः प्रभावती ॥ ३३५॥ चेतस्त्वं वर्धसे दिया, मम भ्रातुः प्रियः सुहृत् । कुतोऽप्यत्र बताऽऽयातः स एवायं धनंजयः ॥ ३३६ ॥ प्रभावोऽस्ति प्रभावत्याः सत्यं सुकृतसंपदः । सतीबतसरःसेतुः कपिकेतुर्यदागमत् ।। ३३७ ॥ सरलैकस्वभावोऽयं मा स्म मायाविनाऽसुना । खेचरेण रणे शान्तं यद्वा नन्वेप फाल्गुनः || ३३८ ॥ सर्वाः संभूय बीभत्सो-भवत्यः कुलदेवताः । शरीरमधितिष्ठन्तु यथा स्याद्विजयी सुधि ।। ३३९ || पतिव्रताव्रतस्यास्य, कोऽपि मे महिमाऽस्ति चेत् । किरीटिना दुरात्माऽयं, जीयतां तत्रभवरः ॥ ३४० ॥ अस्याममूहशानल्प-विकल्पाकुलचेतसि । उवाच विजयो वाचं, खेचरापसदं पुनः ॥ ३४९ ॥
गृहाण रे क्षणात् पाणौ, किमप्यायुधमात्मनः । खगोऽयं दुष्ट ! ते रुष्टस्तदेष न भविष्यसि ॥ ३४२ ॥ ऊबेच फाल्गुनं वल्गु, स वल्गन् समराङ्गणे । रे! मनुष्यक्रमे । नश्य, किमु रोदयसि प्रियाम् १ || ३४३ || विद्याधरवधूवर्ग - वैधव्यदीक्षिता । कष्टं कृपाणयष्टिमें पतन्ती त्रपते स्वयि || ३४४ || बालां को नाम मत्पाणे - रेतामाच्छेतुमिच्छति १ । को हि कण्ठीरवाक्रान्तां, मृगीमाक्रष्टुमीश्वरः १ || ३४५ ।। ममामर्षहुताशेऽस्मि - बाहुतीयन्वा ततः । कथं मनुष्यलोकस्य, कौतु १ पांसनः - अभ्रमः । २ विद्याधराधमम ।