________________
15
ययौ । तत्कालज्वलितोदर्चि-महीपतिचितान्तिकम् ॥ ३०१॥ मत्रपूतैः प्रभावत्याः, पाणिसंस्पर्शपावितैः। भूमिभर्तुचिताम्मोभिः, सिषिचे सव्यसाचिना ॥ ३०२ ॥ राजलोकस्य सर्वस्य, तत्क्षणोत्थितहेतयः । तेने व्योमचरैरन्याः, सेचयांचक्रिरे चिताः ।। ३०३ ॥ प्रभावत्याश्च जिष्णोच, साकं शोकहविर्भुजा । ततः प्रशान्ति तत्काल-माललम्बे हुताशनः ।। ३०४ ॥ विमुक्तस्फारफेत्कारा, तदोत्सङ्गान्महीपतेः । पलायामास वेगेन, सा प्रपञ्चप्रभावती ।। ३०५ ॥
ततो विश्वंभराभा, विस्मयस्मेरलोचनः । निर्जगाम चितामध्यात्, प्रेयसीविरहादिव ॥ ३०६ ॥ वियोगार्तिमनु प्राप्तः, भोक एव परामुताम् । न तु प्रभावती देवी, न चान्यः कोऽपि तामनु ॥३०७॥ प्रमोदाविष्टया, दृष्ट्या भूयः (पः) संभाव्य वल्लभाम् । पीयूपदनिर्मन-मिवात्मानममन्यत ॥३०८ ॥ कसरश्च पुरोभूय, भूमिवल्लभमभ्यधात् । अर्जुनः पाण्डुपुत्रोऽयमानिनाय तव प्रियाम् ॥ ३०९ ॥ ततः स सहमाऽभ्येत्य, बीभत्सुमभिषस्वजे । तदीयानपरिष्वङ्गः, स्वमङ्गं पावयभिव ।। ३१० ॥ वृत्तान्तेन ततस्तेन, प्रेसोलितमनास्तदा । किमेतदिति बीभत्सु-मन्वयुत महीपतिः ॥ ३११ ॥ अथास्मै कथयामास, पार्थादेशेन केसरः । वदेपुरवंदानं हि, सन्तो नात्मीयमात्मना ।। ३१२ ॥ ___तदानीं त्वामवस्थाप्य, राजञ्जिष्णोनिदेशतः । पुनस्त्वरितमेतस्स, पादान्तिकमुपागमम् ।। ३१३ ॥ विमानरत्नमारूढो, मनसोऽप्यधिकत्वरम् । किरीटी हेमकूटाख्यं, क्षणादद्रीन्द्रमासदत् ।। ३१४ ॥ तत्रैकच्छत्रसाम्राज्य-सगर्वतिमिरे कचित् । वृक्षलक्षपरिक्षिप्ते, प्रचनः कन्दरेऽविशत् ॥ ३१५ ।। मर्त्य कीटेन ते देवि!, कृतसङ्गसङ्गतेः । मां विधाय घवं धातु-रच
१ हेतिः-अग्निशिखा । २ अर्जुनेन । ३ पराक्रमम् ।