________________
14
।
ममाप्यमीमिः किं प्राम-स्त्वद्वियोगमलीमसैः । वैङ्गिको मृगाहोऽपि, कौमुदीरेचितः सताम् ।। २७२॥ भूपालमतिवाचालमित्यादिपरिदेवितैः । काममुअच्छमानं च, जीवितान्ताय कर्मणे ।। २७३ ॥ पौरामात्यादयः पाद-पीठाऽऽठितमौलयः। मुहुः प्रसादयामासुः, साश्रुनबममृत्यवे ।। २७४ ।। (युग्मम् )
ततो विदन्निदं भूमि-विडोजस्त्वं विडम्बनाम् । जानञ्जीवितमप्येत-दापदं च पदे पदे ।। २७५ ॥ प्रेयसीविप्रयोगातः, प्रकाममवमन्य तान् । चितामासूत्रयामास, मेदिनीपतिरात्मने ॥ २७६ ।। युग्मम् || नतः पताकिनीलोकः, समस्तोऽपि पृथक् । पृथक् । निर्ममेऽनुमहीपालं, देहत्यागोचिताश्चिताः ॥२७७ ।। अर्धमुरिक्षप्य धर्माशो-रर्थियोऽर्थ वितीर्य च । प्रदक्षिणयति स्माग्नि, चित्यमौचित्यविन्नृपः ।। २७८ ॥ चितामध्यं ततो लोके, हाकारमुखरानने । प्रियामुत्सङ्गमारोप्य, विशति स्म विक्षापतिः ॥ २७९ ॥ अपरोऽपि महीपाल-प्रसादविवशाशयः। अन्तश्चितं चमृलोकः, प्रवेष्टुमुपचक्रमे ।। २८० चितासमार्चिषि ज्वाला, यावद्भपस्य नोदगुः । तावत् सह प्रभावत्या, पार्थोऽभ्यागाचमोऽध्वना ।। २८१॥ बिभ्राणं नवसंवर्त-पुष्करावर्तविश्रमम् । व्याप्तान्तरिक्षमद्राक्षी-मस्तोमं कपिध्वजः ॥२८२।। भुश्राव दुःश्रवाः सैन्य-लोकाक्रन्दगिरोड जुनः। विश्राणयन्तीरभूणि, वनान्तर्वयसामपि ।। २८३॥ स्वकीयैरिव विध्याय-मानाः शोकाचवारिभिः । धूमायमानाः सोऽपश्यत् , कोटिशो रचिताश्रिताः ॥ २८४ ॥ समयश्रुजलोत्पीडैः, कश्चिदर्याञ्जलिं बनः । वेरुदस्पन्नुत्पश्यः, फाल्गुनेन विलोकितः ॥२८५॥
१ बिरागवान-कान्तिरहित इत्यर्थः । २ ज्योत्सारहितः । ३ पौरामात्यादीन । १ सेनाजनः । ५ चितासंचन्धिर्न वहि। ६ चिताम्नौ। ७ वनमध्यपरिणाम ।