________________
श्री पाण्डव
चरित्रम् ॥ सर्गः ५ ॥
॥ ७६ ॥
दृशम् । ईक्षांचक्रे च शोकाते - लोकसंकुलितं वनम् ॥ २२७ ॥ खेचरं केसरं नाम, तस्योदन्तं स वेदितुम् । प्राहिणोद् करुणावेश्म, गत्वाऽभ्येत्य च सोऽभ्यधात् ।। २२८ ॥
हिरण्यपुरमित्यस्ति, पुरमिन्द्रपुरोपमम् । स्वामिंस्तस्मिन्नरिग्राम - गदो हेमाङ्गदो नृपः ॥ २२९ ॥ प्रेयसी तस्य निःशेप - सतीसीमन्तमौक्तिकम् । देहद्युतिजितस्वर्ण प्रभासंपत् प्रभावती ॥ २३० ॥ तामद्य यामिनीशेषे, चन्द्रशालाऽधिशायिनीम् । कैलविङ्कमिव श्येनः कोऽप्यकस्मादपाहरत् ॥ २३१ || आर्यपुत्रार्यपुत्रेति, तदीयकरुणध्वनिः । समं हृदयशोकेन, राजानमजजागरत् || २३२ || भ्रुकुटीभीषणः कर्षन्, कृपाणपातयः । दाने सूर ! ति तिष्ठेति विन् ॥ २३३|| अपश्यंथ पुरः किंचिद्वावित्वा किमतीं ध्रुवम् । फालच्युत इव द्वीपी, तस्थौ दोःस्थाम निवेदन् ॥ २३४ ॥ ततो रिषुमपाक्रतुं प्रत्याहर्तुं च वल्लभाम् । तेन संवर्मयांचक्रे चक्रं शक्रसमश्रिया ।। २३५ ।। ततः कुतोऽप्यविज्ञान- दयितादस्यु पद्धतिः । किंकर्तव्यविमूढात्मा, स तस्थौ पृथिवीपतिः ।। २३६ ।। स्त्रीजातिस्नेहसंक्रान्त-दुःखेवाथ निशीथिनी । जगाम तां धराधीश- प्रेयसीमनुधाविता ॥ २३७॥ तत्याज राजलोकस्य, हृदयेष्विव सर्वतः । संक्रान्तः क्षणदाध्वान्तो, रोदसीकन्दरोदरम् || २३८ || प्रियापहारिणं हन्तुमुद्यतस्य महीपतेः । प्रतिग्रहमिवाधातु-मघावत पतिस्त्वियाम् ॥ २३९ ॥ तस्याः शिथिलधम्मिल्ल-माल्यश्रेणि निपेतुषीम् । करदर्शयन् भास्वान्, कृपयेवादनीपतेः ॥ २४० ॥ चचाल पृथिवीपाल - स्तया कुसुमलेखया । दर्शिताध्या चमूध्यान मह १ शत्रुसमूहे व्याधिरूपः । २ चटकाम् । ३ ' निर्विदन् ' - निन्दन् इत्येकप्रतिपाठः साधुः । ४ पद्धतिः मार्गः । ५ स्वीकारंसाहाय्यमिति यावत् ।
---*-*-*
अर्जुनस्य हस्तिनापुरे गमनम् ।
मार्गे खेच
रस्य मी
लनम् ।।
॥ ७६ ॥