________________
5
नमस्पति स्म नाभेय-मवनिन्यस्तमस्तकः ॥ २१२ ॥ प्रत्येकं स्वस्वसंस्थान-मानवदिशालिनः । नमश्रकार तीधान् , त्रयोविंशतिमप्यसौ ॥ २१३ ॥
भ्रश्यद्भवभ्रमीसादः, प्रासादकमनीयताम् । निर्गत्यालोकयलाषा, कुर्वन् भरतसंपदः॥ २१४ ॥ मूर्त धर्ममिव ज्ञानज्योतिर्विश्वतमोपहम् । चारणं मुनिमेकान्त-लीनमेकं ददर्श सः॥ २१५ ॥ युग्मम् ।। सोऽभिवन्द्य तमानन्दा-दुपविश्य तदन्तिके । भवाम्भोधितरीकल्पा-मोषीद्धर्मदेशनाम् ।। २१६ ।। धर्मोऽयं यैः श्रियो रथा-कोविदः सौविदः कृतः। चिराय ते भजन्त्येता-मखण्डितसतीव्रताम् ।।२१७।। जगद्भयंकरः स्मेर-मुखः संसारकेसरी । धर्मद्रुमाधिरूढाना, यदि न प्रभवत्यसौ ॥ २१८ ॥ सिच्यन्ते धर्मकुल्याभि-क्तिशर्ममहीरुहः । तासां तटवणायन्ते, सुरासुरनरश्रियः ॥२१९ ।। अयं च निर्ममे धर्मस्तथा प्रारजन्मान त्वया । निःशेषभुवनोर्जस्वी, यथेदानीमजायथाः ।।२२०॥ इदं च जगदाधाप, दोस्तम्भैरकुतोभयम् । भविव्यसि मवेऽत्रैब, मोक्षलक्ष्मीस्वयंवर ॥२२१॥ इत्याकर्ण्य गिरं कर्ण-कीर्णपीयूषविग्रुपम् । आनन्दाम्भोधिनिर्मग्न-मन्तरात्मानमुद्वहन् ॥ २२२ ।। मुनिमानम्य तं मौलि-लालितातिसरोरुहः ( हम् ) । विमानेन ततः पार्थः, प्रतस्थे मरुता पथा ॥ २२३॥ (युग्मम् ) शिवश्रीदससंकेतः, संमेतप्रभृतिष्वसौ । तीर्थेष्ववन्दत ध्वस्त-समस्तवृजिनाजिनान् ॥ २२४ ॥
अतीत्य तीर्थसेवाभिः, सोऽथ द्वादशहायनीम् । प्रत्यचालीचिरोत्कण्ठा-विहस्तो हस्तिनापुरम् ॥ २२५ ॥ पृथुकीर्तिः ।। पृथासूनुर्गच्छन् गगनवर्मना । आक्रन्दमिश्रमौषी-दघस्तात्तुमुलध्वनिम् ॥२२६॥ स वीरः मपदि प्रैषीत , तदानुपदिकी।
१ सादः-स्वेदः । २ अन्तःपुररक्षकः । ३ धर्मकुल्यानाम् । ५ संकेत-संमेत' इति एकप्रतिपाठः साधुः । ५ वृजिनं - म्वम ।।।