________________
148
घनैरिव रविं नभः ।। १८१ ।। साक्षेपः प्रतिचिक्षेप, पार्थाकस्तान् सुदुःसहैः । आदायेर्षमिवेष्वासं मार्गणैः किरणैरिव ॥ १८२॥ ततः कार्मुकमारोप्य, रोषात् कोपारुणेक्षणः । खेचरः स्वयमारेभे, बीभत्सुममिवर्षितुम् || १८३ || ववर्ष शरधाराभि-रब्दवत् स यथा यथा । प्रकर्षमगमल्लक्ष्मी - रर्जुनस्य तथा तथा ॥ १८४ ॥ पाण्डवेयस्य दोर्दण्ड - चण्डिमानं विलोकयन् । भीतचेतास्ततः सोऽभूदितिकर्तव्यविक्लवः ॥ १८५ ॥ काममुन्धातुकामोऽपि मणिचूडो रणाङ्गणे । जिष्णोः सर्वरिपूञ्जिष्णोर्न लेवरं कचित् ॥ १८६ ।। वीरव्रतविपर्यास-संपतृणलाघत्रः । पक्षवातैरित्र क्षिप्तः, कापि कौन्तेयपत्रिणाम् ।। १८७ ॥ विशुद्वेगो रणक्षणैः पलायामास रंहसा । संवर्तमारुतावर्ते कियद्दीयः प्रदीप्यते || १८८ || प्राणत्राणाय संभूय, बीभत्सुमभयंकरम् | आगत्य विगलन्द व मानेचच ॥ १८९ ॥
मणिचूडं पुरस्कृत्य, विजयो विजयोजितः । पुरं विवेश पौराणां, मनश्चानन्दमेदुरम् ॥ १९० ॥ प्रविश्य तत्र धात्रीश घानि सत्यप्रतिश्रवः । मणिचूडं पदे सद्यः सोऽभ्यषिञ्चत पैतृके ॥ १९१ ।। स प्राप्य पुनरात्मीयां, संपदं संमदप्रपाम् । चकाशेऽधिकमम्भोद-मुक्तरांकामृगाङ्कवत् ॥ १९२ ॥ तैस्तैस्तद्भक्तिकल्लोलैः, प्रथमानैः पृथासुतः । बहून्मुहूर्तवत् तत्र, त्रासरानत्यवाहयत् ॥ १९३ ।।
मणिचूडमथान्येद्यु- र्मन्युवधर्भुलोचनम् । आपपृच्छेऽप्यनिच्छन्तं पार्थस्तीर्थदिदृक्षया ॥ १९४ ॥ ततो विमानमारुझ, rogaणुधर्मधीः । एर्न सेनाभिरस्पृष्ट-मष्टापदगिरिं ययौ ॥ १९५ ॥ भगवानादितीर्थशो, यत्र पत्रलभूरुहि । चिरं १ आश्विनमासम् । २ मानरहितं यथा तथा । ३ हर्षस्य प्रपारूपाम् । ४ राकामृगाङ्कः- पूर्णिमाचन्द्रः । ५ मन्युः शोकः । ६ समूहैः ।